SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०२ महाविद्याविडम्बनम् | तस्मिन्नाश्रयाश्रयिभावादौ प्रतियोगिनि असति असद्भूते कस्याभावः स्यादित्यर्थः । पराशङ्कां मत्वा सिद्धान्ती प्रतिविधत्ते यस्मिन्न सतीति । नन्वसति तस्मिन्नित्यत्र असतीति यस्मिन्विषये त्वयोच्यते, तस्यैवायमभावः । एतावता असत एवायमभाव इत्यर्थः । अथ अभावविरहरूपत्वं प्रतियोगित्वम् तच्चाप्रामाणिकस्य न घटते इत्युच्यते । तन्न । अभावतद्धर्मादिव्यतिरिक्तस्य अप्रामाणिकाभाव इत्येतस्प्रतीतिगोचरस्य अप्रामाणिका भावप्रतियोगित्वेन अप्रामाणिकाभाववादिभिः पूर्वाचार्यैरङ्गीकारात् । वयं तु निष्प्रतियोगिकमेवात्यन्ताभावं ब्रूमः । प्रतियो गित्वं हि धर्मविशेषः, न चासावप्रामाणिके संभवति । ( भुवन० ) - अथ प्रतियोगिलक्षणप्रणयनपूर्वमप्रामाणिकस्य प्रतियोगित्वाभावमा रेकते— अथाभावविरहरूपत्वमिति । अभावस्य असद्रूपस्य यो विरहोऽभावस्तद्रूपत्वं प्रतियोगित्वम् । भावरूपत्वं प्रतियोगित्वमिति भावः । तच्चेति । तदेवंविधं प्रतियोगित्वमप्रामाणिकस्य असत्त्वेन न घटत इत्यर्थः । अभावानाश्रयत्वेऽभावादन्यत्वे च सति अभावप्रतीतिसमये प्रतीयमानत्वमात्रं प्रतियोगित्वभिति परिहरति—तन्नेति । अभावतद्धर्मादीति । अभावश्च तद्धर्मा अभावत्वादयोऽभावधर्माश्च, अभावतद्धर्माः । अत्रादिपदेन प्रमातृसंग्रहः । तद्व्यतिरिक्तस्य खरविषाणादेः । अप्रामाणिकेति । अप्रामाणिकस्य प्रमाणाग्राह्यस्य वस्तुनोऽयमभावः इत्येवंसम्बन्धपूर्विका या प्रतीतिस्तद्गोचरस्य द्वियस्येत्यर्थः । अप्रामाणिकस्य योऽयमभावस्तस्य प्रतियोगित्वेन अप्रामाणिकस्य योऽभावस्तद्वादिभिः पूर्वाचार्यैरङ्गीकारात्स्वीकारादित्यर्थः । अथ सर्वथैवाप्रामाणिकस्य प्रतीतिरनुचितेत्यत्राह – वयमिति । अत्यन्ताभवस्य कोऽपि प्रतियोगी नास्तीति वयमङ्गीकुर्म इत्यर्थः । अत्रैव युक्तिमाचष्टे - प्रतियोगित्वं हीत्यादि । 1 " ननु यदि न अप्रामाणिके अभावप्रतियोगित्वं कथं तर्ह्ययमप्रामाणिकोऽभावः इति । अप्रामाणिका भावत्वरूपधर्माश्रयत्वादित्यवेहि | " Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ८७ ( भुवन ० ) - अप्रामाणिकप्रतियोगिकत्वानङ्गीकारेऽप्रामाणिकाभाव इति व्यपदेशस्य का गतिरित्याह- ननु यदीत्यादि । अप्रामाणिके एतद्वैतद्भूतलाश्रयाश्रयिभावादौ यद्यभावप्रतियोगित्वं नास्ति, कथं तर्ह्ययमप्रामाणिकाभाव इत्युच्यते इत्यर्थः । अप्रामाणिक भावोऽप्रामाणिका भावत्वरूपधर्मविशेषाश्रयत्वाद्भविष्यतीत्यनेन परारेकां तिरस्कुरुते - अप्रामाणिका भावत्वरूपेति । अप्रामाणिकाभावत्वरूपधर्माश्रयत्वाद्धेतोरप्रामाणिकाभाव इति वक्तुं युक्तमेवेति भावः । अथ योग्यानुपलब्धिगम्यो ह्यभावः, प्रतियोगितडर्मव्यतिरिक्ता च प्रतियोगिप्रतीति सामग्री योग्यता । अप्रामाणिकप्रतीतिसामग्री च भ्रान्तिसामयेव । सा च प्रतियोगितद्धर्मव्यतिरिक्तैव । तस्यां च सत्यामपेक्षणीयान्तराभावादनुपलब्धिर्नास्ति । अनुपलब्धौ च सत्यामप्रामाणिकोपलम्भसामग्रीरूप१ रहयोगित्वं प्रति इति० ज पुस्तक पाठः ।
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy