________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६
भुवनसुन्दरसूरिकृतटीकायुतं द्वितीयः । अप्रामाणिकाभावत्वाप्रामाणिकत्वयोः क्वचिदपि व्यास्यसिद्धेर्मूलशैथिल्यादिति । पूर्ववदापाद्यापादकयोरप्रसिद्धेश्च ।
(भुवन०)-अथ आश्रयायिभावस्याप्रामाणिकत्वात्तभावस्याप्यप्रामाणिकत्वमिति शङ्कतेअथैतद्धटैतभूतलेत्यादि । तदभावोऽपीति । एतद्बटैतद्भूतलाश्रयायिभावाभावोऽपीत्यर्थः । अत्र युक्तिमाह-नहीत्यादि । अप्रामाणिकस्य आश्रयिभावादेरभावोऽप्रामाणिकाभावः । अभावनिरूपकत्वात्प्रतियोगिनः, तदभावोऽपि तत्समान एव न्याय्य इत्यर्थः । विकल्पासहत्वेन परोदितं दूषयति-तन्नेति । अप्रामाणिकाभावत्वेनेति । अप्रामाणिकस्याभावोऽप्रामाणिकाभावः, तस्य भावस्तत्त्वं, तेन । अप्रमाणिकत्वमनुमीयते इति । एतद्धटैतद्भूतलाश्रयाश्रयिभावाभावोऽप्रामाणिकः अप्रामाणिकाभावत्वात् खरविषाणाभाववदित्यनुमानं क्रियते । किं वाप्रामाणिकेति । अप्रामाणिकस्याभावत्वेनाप्रामाणिकत्वमापाद्यते । यः एवापाद्यते स एव तर्कः, 'आपाधाभिन्नत्वात्तस्ये 'ति वचनादनिष्टापादनरूपस्तों वापाद्यत इति । एतावता इदमनुमानमापाद्यरूपस्तों वेति विकल्पौ इत्यर्थः । आये विकल्पेऽप्रामाणिकाभावः प्रमितो न वेति द्वेधा विकल्प्य, क्रमेण दूषणोद्धोषणां विधत्ते-- अप्रामाणिकामावस्येति । अप्रामाणिकस्य अभाव इति समासः । विरोधादिति । यदि अप्रामाणिकाभावस्तर्हि कथं प्रमितः, अप्रामाणिकस्य प्रमाणाग्राह्यत्वेन तदभावस्यापि तथात्वादित्यभिप्रायेण विरोध इत्यर्थः । अप्रमितत्वे इति । अप्रामाणिकस्य आश्रयायिभावस्याभावः पक्षीकृतो यद्यप्रमितः प्रमाणेन न गृहीतः, तर्हि तस्मिन्नप्रमिते खरविषाणे इव प्रवर्तमानोऽप्रामाणिकाभावत्वादिति हेतुराश्रयासिद्धः स्यादित्यभिप्रायः । अथाप्रामाणिकाभावत्वादित्ययं हेतुरसिद्ध इत्याहअप्रामाणिकाभावप्रतीतिमिति । हेत्वप्रमितेश्चेति । अप्रामाणिकाभावत्वादिहेतोभवन्मतेऽप्रामाणिकत्वादप्रसिद्धत्वेनासिद्धत्वमित्यर्थः । अथ द्वितीयं विकल्पमुत्थापयति । नापि द्वितीय इति । अप्रामाणिकत्वमापाद्यते इत्येवंरूपो द्वितीयोऽपि न । अप्रामाणिकाभावेति । अप्रामाणिकाभावत्वं व्याप्यम् । अप्रामाणिकत्वं व्यापकम् । तयोश्च यत्र अप्रामाणिकाभावत्वं तत्र अप्रामाणिकत्वमिति व्याप्त्यसिद्धाप्त्यनुपपत्तेः । यतो विवक्षितभूतलेऽप्रामाणिकाश्रयायिभावाभावोऽप्रामाणिको न भवत्यस्माकं मते । तस्य चाक्षुषत्वेन प्रामाणिकत्वात् । मूलशैथिल्यादिति । तर्कस्य हि मूलं व्याप्तिः, तस्याश्चात्रासिद्धेः प्रशिथिलमूलतापरपर्यायो मूलशैथिल्याख्यस्तर्कदोषः स्यादेवेत्यर्थः । तथा अप्रामाणिकाभावप्रतीतिमनङ्गीकुर्वतो भवतः आपादकादेरसिद्धिरपि तर्कदोषः स्यादित्याहपूर्ववदापावापादकयोरप्रसिद्धश्चेति । व्याप्योऽप्रामाणिकाभाव आपादकः, व्यापकमप्रामाणिकत्वमापाद्यं तयोरप्रसिद्धेरिति । आपादकादिकं हि प्रसिद्धं वाच्यम् । तच्च भवन्मतेऽप्रामाणिकत्वेनाप्रसिद्धमिति युक्तं तदप्रसिद्धयाख्यानमित्यर्थः ।
ननु असति तस्मिन् कस्याभावः इति चेत् । यस्मिन् असतीति त्वयो. च्यते तस्यैव ।
(भुवन० )-अथ ' यदस्ति तन्मेयमिति नियमादप्रामाणिकत्वेन प्रतियोगिनः एतद्धटैतद्भूतलाश्रयाश्रयिभावादेरसत्त्वात् अभावो न स्यान्निरूपकाभावादित्याशङ्कते-नन्वित्यादि ।
For Private And Personal Use Only