SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८४ भुवनसुन्दरसूरिकृत टीकायुतं 1 (भुवन ० ) - अथानादिः सान्तः प्रागभावः, सादिरनन्तः प्रध्वंसाभावः, तादात्म्यनिषेधोऽन्योन्याभाव:, अनादिरनन्तः संसर्गाभावोऽत्यन्ताभाव:, इति चतुर्थाऽभावः । तत्रात्यन्ताभावे प्रमाणमनुभव एवेत्यारेकते — अथान्योन्यप्राक्मध्वंसेत्यादि । घटस्य यः इह भूतलेऽत्यन्तमभावः सोऽन्योन्याभावप्रागभावप्रध्वंसाभावत्रयाद्व्यतिरिक्तो भिन्नः । पुनः किंविशिष्टः - संसृज्यमानप्रतियोगिनिरूप्य इति । भूतलादिना संसृज्यमानः संश्लिष्यमाणो यो घटादिः प्रतियोगी तेन निरूप्योऽत्यन्ताभावः । तत्प्रतियोगित्वं चेति । तस्य अत्यन्ताभावस्य प्रतियोगित्वं तत्प्रतियोगित्वं, तदेव चात्यन्ताभावप्रतियोगित्वम् । कुम्भादिनिष्ठमनुभवसिद्धमिति । प्रत्यक्षप्रमाणसिद्धमित्यर्थः । अनुभवस्यान्यथैवोपपन्या परोक्तं तिरस्करोति—तन्नेति । आश्रयाश्रयिमावेति । आश्रयो भूतलम्, आश्रयी घटः, तयोर्भाव आश्रयाश्रयिभावः । एतद्बटैतद्भूतलयोर्यत्राश्रयाश्रयिभावः सम्बन्धस्तदत्यन्ताभावस्यैवानुभवसिद्धत्वात् । अयं भावः । इह भूतले एतद्वटो नास्तीत्ययं घटस्यात्यन्ताभावो न भवति, किं त्वयमाश्रया - श्रयिभावस्यैवात्यन्ताभावः । यतोऽत्रायं घटो न निषिध्यते, अपि तु एतद्वैतद्भूतलयोः संसर्गों निषिध्यते । स चाप्रामाणिक एव । तस्य तत्रासत्त्वेन काल्पनिकत्वात् । तस्य तत्रासत्त्वं च यस्य घटस्यैतद्भूतलेन आश्रयाश्रयिभावो न जातो, नापि भविष्यति, तस्य घटस्यैतद्भूतलेनाश्रयाश्रयिभावस्य निष्प्रमाणकस्य विवक्षितत्वात् । अतोऽप्रामाणिकैतद्भद्वैतद्भूतलाश्रयाश्रयिभावात्यन्ताभावस्यैव प्रत्यक्षसिद्धत्वान्न घटस्यात्यन्ताभावोऽयमिति । 1 Acharya Shri Kailassagarsuri Gyanmandir अथ यदीह भूतले घटाभावाभाव:, तर्हि घटः स्यादिति ब्रूषे । तन्न । किमत्र एतद्वंद्वैतद्भुत संसर्गः आपाद्यते किंवा घटः । आये आपाद्यासिद्धिः । द्वितीये तु इष्टापादनम् । क्वचिद् घटस्याप्यङ्गीकारात् । (भुवन०)- ) — अथ घटाभावेऽपोद्यमाने हि घटभाव एवावशिष्यते इति शङ्कते - अथ यदीत्यादि । घटस्य अभाव घटाभावः, तस्याप्यभावो घटाभावाभावो, घट इत्यर्थः । " द्वौ नत्रौ समाख्यातौ पूर्वोक्तमेवार्थे गमयतः " इति न्यायात् । विकल्पद्वयेन एतत्परिहरति - तन्नेति । अत्रेति भूतले । आद्य इति । आद्ये विकल्पे आपाद्यस्य एतद्वैतद्भूतलसंसर्गस्यासिद्धिः । यतोऽत्र भूतले यदि घटाभावाभावः स्यात्, तर्ह्येतद्वद्वैतद्भूतल संसर्गः स्यादित्यत्रैतद्वदैतद्भूतल संसर्गः आपाद्यः । स चासिद्ध एव | अनिष्टप्रसञ्जनार्थमेवोक्तत्वेन तत्र तस्य काल्पनिकत्वादिति । यदीह भूतले घटाभावाभावः, तर्ह्येतद्भद्वैतद्भूतलसंसर्गः स्यादित्यत्र तर्फे आपाद्यासिद्धिर्नाम तर्कदूषणं स्यादिति न प्रथमो विकल्प - ऽङ्गीकारार्हः इति भावार्थ:- द्वितीये त्विष्टापादनमिति 1 घटाभावाभावे सति कापि भूतलादौ घटस्याप्यङ्गीकारात् । किञ्च घटाभावाभावः किं घटप्रागभावस्याभाव:, किंवा घटप्रध्वंसस्याभाव:, किंवा घटान्योन्याभावस्याभाव: । त्रयमपि न । घटप्रागभावप्रध्वंसान्योन्याभावाभाववति घटे घटस्याविद्यमानत्वेन आपाद्यापादकयोर्व्याप्तिभङ्गा १ योग्यत्यभावात् । नां इतिं घ पुस्तक पाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy