________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०२
महाविद्याविडम्बनम् |
त्वनिष्टत्वरहित इति साधनेन सहोपाधेर्व्याप्तिर्नास्ति । यतः पक्षीकृतेऽत्यन्ताभावप्रतियोगित्वेऽत्यन्ताभावप्रतियोगित्वव्यतिरिक्तमेयत्वनिष्ठत्वरहितत्वमस्ति न च प्रमेयत्वनिष्ठत्वरहितत्वं, तस्याद्यापि विवादास्पदत्वात् । तेन साधनाव्यापकश्चायमुपाधिः । तथात्र यत्प्रमेयत्वनिष्ठत्वरहितं नास्ति, तत्प्रमेयत्वाद्व्यावृत्तमपि नास्ति, यथा सत्त्ववाच्यत्वादि, इति सत्त्वादेर्विपक्षस्योपाधेर्व्यावर्त्यत्वेनपक्षेतरत्वाख्यमपि दूषणमुपाधेर्नाशङ्कनीयमिति प्रमेयुत्वनिष्ठत्वविरहेणात्यन्ताभावप्रतियोगित्वं प्रमेयत्वव्यावृतमित्यनुमानस्य सोपाधित्वं स्यादेवेति तात्पर्यार्थः ।
न च केवलान्वयित्वसिद्ध्यै महाविद्यापि प्रमेयत्वादीनां प्रभवति । वक्ष्यमाणसकलदोषैव्याकुलत्वादिति । एवमुदयनादीनां मतमवलम्ब्य घटादिनिष्ठमत्यन्ताभावप्रतियोगित्वमङ्गीकृत्य अत्यन्ताभावप्रतियोगित्वं कुतश्चिद्यावृत्तमित्यादिप्रयोगो निरस्तः ।
( भुवन० ) - अथ प्रमेयत्वादयः संप्रतिपन्नैतद्धर्मत्वरहिताधिकरणं वस्तुत्वाद्धटवदित्यादिमहाविद्या प्रमेयत्वादीनां केवलान्वयित्वं विप्रतिपन्नं सेत्स्यतीत्याशंक्य वावक्ति-न च केवलेत्यादि । प्रमेयत्वादीनां केवलान्वयित्वसिद्धयै महाविद्यापि न च प्रभवतीति पदान्वयः । वक्ष्यमाणाः सकलदोषाः सोपाधित्वासिद्धत्वादयस्तैर्व्याकुलत्वादिति - उदयनादीनामिति । उदयनादिपूर्वाचार्याणाम् ।
वयं तु ब्रूमः - अत्यन्ताभावप्रतियोगित्वमेव नास्ति । कस्य धर्मित्वम् । अप्रामाणिकप्रतियोगिको ह्यभावोऽत्यन्ताभावः, तत्प्रतियोगित्वं चाप्रामाणिकमेव । न चाप्रामाणिकनिष्ठमत्यन्ताभावप्रतियोगित्वं नाम धर्मः शक्योऽङ्गीकर्तुम् । प्रमाणविरहादिग्रस्तत्वात् ।
(भुवन०) - अत्यन्ताभावप्रतियोगित्वमेवेति । अत्यन्ताभावप्रतियोगित्वरूपो धर्म एव यदि नास्ति, तर्हि कस्य धर्मित्वं घटते । धर्माधारो हि धर्मीतिव्यवस्थिते: । अत्यन्ताभावप्रतियोगित्वं निष्प्रमाणकवान्न हेतोराश्रय इति वक्तुमत्यन्ताभावस्वरूपमाह — अप्रामाणिकेति । अप्रामाणिकं शशशृङ्गादिप्रतियोगि यस्याभावस्य स तथा -- तत्मतियोगित्वमिति । अत्यन्ताभावप्रतियोगित्वमित्यर्थः - न चाप्रामाणिकनिष्ठमिति । अप्रामाणिके खरविषाणादौ निष्ठं यदत्यन्ताभावप्रतियोगित्वं तद्रूपो धर्मः कथमङ्गीकारार्हः । तत्र प्रमाणाभावात् ।
अथ अन्योन्यप्राक्प्रध्वंसाभावव्यतिरिक्तः संसृज्यमानप्रतियोगिनिरूप्यः इह भूतले घटो नास्तीत्यादिप्रतीतिसाक्षिकः कुम्भादीनामभावोऽत्यन्ताभावः, तत्प्रतियोगित्वं चात्यन्ताभावप्रतियोगित्वं कुम्भादिनिष्ठमनुभवसिद्धमिति ब्रूषे तन्न । इह भूतले घटो नास्तीत्यत्र एतद्धद्वैतद्भूतलाश्रयाश्रयिभावात्यन्ताभावस्यैव अनुभवसिद्धत्वात् ।
१ दोषग्रस्तत्वादि इति घ पुस्तक पाठः । २ योगी चाप्राणिक एवं । इति घ जपुस्तक पाठः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
८३