SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प० १ महाविद्याविडम्बनम् । ७५ द्वितीयं तु पक्षं महाविद्यागोचर सुगमदूषणच्युत्पादनेने निराकरिष्यामः ॥ इति श्रीहरकिङ्करन्यायाचार्यपरमपण्डितभट्टवादीन्द्रविरचिते महाविद्याfast दूयैविवेको नाम प्रथमः परिच्छेदः ॥ १ ॥ ( आनं० ) - अप्रतिभानिप्रहमात्मनः परिहर्तुं महाविद्या ज्ञातव्या । अतोऽपि तद्वयाख्यानमुपयुक्तमित्याह – यद्वेति | पक्षे साध्यवतो धर्मिणो धर्मः केवलान्वयी व्यापकः साध्यः । क्षे तद्धिने तदन्यस्मिंश्च वृत्तित्वरहितेन अनुरञ्जितः स्वस्वेतरवृत्तित्वानाक्रान्त इत्यर्थः । इति महाविद्याविडम्बनव्याख्याने श्रीमदानन्दपूर्णविरचिते प्रथमः परिच्छेदः । Acharya Shri Kailassagarsuri Gyanmandir (भुवन० ) – अज्ञाननिग्रहमात्मनः परिहर्तुं महाविद्या ज्ञातव्या । अतोऽपि तद्व्याख्यानमुपयुक्तमित्याह — यद्वेति | यद्वा वादिनः सम्यक् साधनापरिस्फूर्ती सम्यक् स्वपक्षसाधनानुत्पत्तौ महाविद्यापि प्रयोक्तव्या । अत्रार्थे दृष्टान्तमाचष्टे - सम्यग्दूषणेत्यादि । अयं भावः । यथा सम्यग दूषणापरिस्फुरणे जात्यादिः, आदि शब्दाच्छलादिः प्रयुज्यते । अनित्यः शब्दः कृतकत्वात् घटवादित्यादावनुमाने सम्यक् हेत्वाभासादिदूषणाप्रतिभाने यदि अनित्यघटसाधर्म्यात् कृतकत्वात् अनित्यः शब्दः स्यात्तर्हि नित्याकाशसाधर्म्यात् अमूर्त्तत्वान्नित्योऽपि किं न स्यादिति साधर्म्यसमा दिजातिः प्रतिवादिना यथा प्रयुज्यते, तद्वद्वौद्धादीन् प्रति महाविद्यापि प्रयोज्येति तद्व्याख्यानमुपयुक्तमेवेति । अत्रार्थे शिवादित्यमिश्रोक्तमवतारयति - यदाहुरित्यादि । पक्षः प्रकृतः शब्दादिः । तद्भिन्नाः शब्देतरे नित्यानित्यपदार्थाः । तयोर्ये वर्तन्ते धर्मास्तेषु तद्वृत्तित्वं धर्मः तेन यद्रहितत्वं तेनानुरञ्जितो मिश्रितः स्वस्वेतरवृत्तित्वानाक्रान्त इत्यर्थः । साध्यवतो धर्मिणोऽनित्यस्य धर्मो मेयत्वादिहेतुव्यापकः साध्यः साधनीयः । पक्षे इति शेषः । अनित्यनिष्टसाध्य इति भावः । केन हेतुना साध्यः इत्याह — मेयत्वात् । मानविषयो मेयः, तत्त्वात् । मेयत्वादित्युपलक्षणम् । तेन सत्त्वज्ञेयत्ववाच्यत्वादयोऽपि हेतवो ग्राह्याः । ननु किं वादिना सर्वदा महाविद्या प्रयोक्तव्या यद्वा प्रतिवादिनः प्रतिभाक्षये कर्तव्ये, स्वस्य प्रतिभाक्षये जाते वेत्याशङ्कय, द्वितीयं द्विधाप्यङ्गीकरोति - प्रतिभाक्षये इति । आद्ये पक्षे प्रतिवादिनः प्रतिभाक्षये कर्तव्ये इति व्याख्येयम् । द्वितीये वादिनः प्रतिभाक्षये जाते सतीति । इयं च कारिका महाविद्याग्रन्थान्तरस्थिता, अत्र ग्रन्थे " अयं शब्दः स्वस्वेतरे " त्यादि प्रथममहाविद्यार्थसङ्ग्रहप्रतिपादिकावगन्तव्या । द्वितीयं तु पक्षमित्यादि । महाविद्यार्थवेदिनोऽपि प्रतिवादिनस्तदूषणाप्रतिभानरूपं द्वितीयं पक्षम् । महाविद्यागोचरसुगमदूषणव्युत्पादनेनेति । केवलान्वयिभञ्जनासिद्धत्वाद्युद्भावनरूपेणाग्रेतनपरिच्छेदयोर्निराकरिष्याम इत्यर्थः । इति श्रीजिनशासन - गगनाङ्गणनभोमणिषड्दर्शनी रहस्याभिज्ञंशिरोमणि सुविहिताचार्यचक्रचूडामणि-श्रीतपागच्छश्टङ्गारहारभट्टारक-प्रभुश्री सोमसुन्दरसूरिशिष्यश्रीभुवनसुन्दरसूरिविरचितायां महाविद्याविडम्बनवृत्तौ व्याख्यानदीपिकायां दृष्य विवेकव्याख्यानो नाम प्रथमः परिच्छेदः समाप्तः ॥ १ नेन आश्रयिष्यामः' इति ग पुस्तकपाठः । २ दृष्यविकासोनाम' इति घ पुस्तकपाठः | For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy