SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं त्याशङ्कयाह-खण्डनेति । मम पुनः किंविशिष्टस्य । महाविद्याप्रयोगाणां यत् खण्डनं तत्र आखण्डलस्य शकस्य । यथा शको वज्रेण दुर्द्धरभूधरप्रकरखण्डनपण्डितस्तथा अहमपि स्वशक्तिव्यक्तिपयुक्तयुक्तयुक्तिपत या महाविद्याप्रयोगखण्डनपण्डितिमप्रचण्ड एवेत्यर्थः । आद्यविशेषणेन सर्वमहाविद्याव्यवस्थापनविषये स्वस्य परमं कौशल्यमाविश्वके । द्वितीयविशेषणेन तु तत्प्रयोगखण्डनापाण्डित्यमिति परमार्थः ॥ ३ ॥ महाविद्यादूषणे प्रवृत्तस्य तद्व्याख्यानमैसंगतमिति चेत् । न । महाविद्यावादिना किं सभ्यविदितार्थप्रतिवादिदुरधिगममहाविद्याप्रयोगानन्तरं अज्ञानेन प्रतिवादिनं निगृह्यात्मनो विजयो भावनीयः, किं वा प्रतिवादिविदितार्थमहाविद्यार्दूषणाऽप्रतिभया प्रतिवादिनं निगृह्यात्मनो विजयो भावनीयः । नाद्यः यतैः। इति गूढमहाविद्याव्याख्या कौतूहलच्छलात् । दूरे निरस्तमस्माभिरज्ञानं प्रतिवादिनः ॥ ४ ॥ ( आनं० )-" उन्मीलन्ति महाविद्यादोषकैरवकोरकाः ।" इति प्रतिज्ञाविरोधं शङ्कतेमहाविद्यादृषणेति । महाविद्यावादिना प्रतिवादिन्युद्भाव्यमानमज्ञाननिग्रहं खण्डयितुं महाविद्याव्याख्यानमसंगतमिति मत्वा परिहरति-नेति ।। (भुवन०)-अथ ' उन्मीलन्ति महाविद्यादोषकैरवकोरकाः ' इति प्रतिज्ञाविरोधं महाविद्याव्याख्यातुः शङ्कते-महाविद्यादूषणेति । महाविद्यावादिना प्रतिवादिन्युद्भाव्यमानमज्ञाननिग्रहं खण्डयितुं महाविद्याव्याख्यानं सङ्गतमिति मत्वा विकल्पद्वयेन परिहरति-महाविद्यावादिनेत्यादि। महाविद्यावादिना पूर्वपक्षवादिना वैशेषिकादिना किं सभ्यैर्विदितार्था ज्ञाताः प्रतिवादिभिश्च दुरधिगमा दुर्जेया या महाविद्यास्तासां प्रयोगानन्तरमज्ञानेन महाविद्याया अपरिज्ञानेन प्रतिवादिनं निगृह्यात्मनो विजयो भाव्यः । द्वितीयविकल्पमाह-किं वेत्यादि । किं वा प्रतिवादिना विदिता ज्ञातार्था या महाविद्यास्तासां यहूषणं तदप्रतिभया प्रतिवादिन एव तदुत्पादनाशक्त्या प्रतिवादिनं निगृह्य स्वस्य विजयो भाव्यः । तत्र प्रथमविकल्पमुत्थापयति-नाद्य इति । ___अत्र हेतुमभिधत्ते-यत इत्यादि । यतः कारणादित्येवं प्रकारेण गूढमहाविद्याव्याख्या कुर्वद्भिः अस्माभिः प्रतिवादिनो महाविद्याविषयमज्ञानं दूरे निरस्तमित्यर्थः ॥ ४ ॥ यहा सम्यक्साधनापरिस्फूर्ती सौगतादीन् प्रति महाविद्याः प्रयोक्तव्याः, सम्यग्दूषणापरिस्फूर्ती जात्यादिवत् , इति तद्व्याख्यानं नानुपयोगि । यदाहुः शिवादित्यमिश्राः "पक्षतद्भिन्नवृत्तित्वरहितत्वानुरञ्जितः । धर्मः साध्यवतः साध्यो मेयत्वात्प्रतिभाक्षये ॥” इति । १ नमनुपपनमिति इति ग पुस्तकपाठः। २ दूषणेऽप्रति' इति घ पुस्तकपाठः । ३ यतः एवम् इति' इति घ पुस्तकपाठः । ४ महाविद्यापि प्रयोक्तव्या । स' इति थ पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy