SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं १ घटत्वं घटत्वव्यतिरिक्तशब्देतरानित्यनिष्ठत्वरहितानित्यनिष्ठान्यत् मेयत्वात् घटवदित्यादयः॥१॥ १ (आनं० )-घटत्वव्यतिरिक्तेति । घटत्वव्यतिरिक्तशब्देतरानित्यनिष्ठत्वरहितश्च घटत्वं वा, शब्देतरानित्यवृत्तिरहितो वा । आद्यान्यत्वं व्याहतं, द्वितीयस्तु अनित्यनिष्ठत्वविशेषणः सिध्यननित्यत्वं शब्दे गमयेदिति भावः । आदिपदेन घटरूपं स्वव्यतिरिक्तशब्देतरानित्यनिष्टत्वरहितानित्यनिष्ठान्यत् मेयत्वाद्बटवदित्यादिसंग्रहः । (भुवन०)-अथ सपक्षनिष्ठं धर्म पक्षीकृत्य प्रवर्तमानमहाविद्याभेदा यथा-घटत्वं घटत्वव्यतिरिक्तेत्यादि । शब्दादितरे च ते अनित्याश्च शब्देतरानित्याः। तेषु निष्ठाः पटत्वस्तम्भत्वादयः । घटत्वव्यतिरिक्ताश्च ते शब्देतरानित्यनिष्ठाश्च । तेषां भावः तत्त्वम् । तेन रहितः ।अनित्ये पटादौ निष्ठा येषां ते तथा । घटत्वव्यतिरिक्तशब्देतरानित्यनिष्ठत्वरहितश्चासौ अनित्यनिष्ठश्च । ततोऽन्यत् घटत्वमित्यर्थः । घटत्वमन्यदित्युक्ते ज्ञानादेरन्यदिति सिद्धसाधनम् । अत उक्तं-अनित्यनिष्ठान्यदिति । एवमपि पटत्वान्यत्वादिना अर्थान्तरत्वम् । अत उपात्तं-शब्देतरानित्यनिष्ठत्वरहितेति । शब्देतरानित्यनिष्ठत्वरहितानित्यनिष्ठान्यदित्युक्ते च अप्रसिद्धविशेषणत्वम् । शब्दानित्यत्वसिद्धेः प्रागेवरूपसाध्यासिद्धेः । अतो घटत्वव्यतिरिक्तेति पदग्रहणम् । इति व्यावृत्तिचिन्ता ।। अत्राद्यविशेषणेन घटत्वव्यतिरिक्तेत्यस्य शब्देतरेत्यस्य च भणनाद्, घटत्वं शब्दत्वधर्माश्च मुक्त्वा अन्ये अनित्यपदार्थधर्माः सर्वेऽपि निषिद्धाः, अनित्यनिष्ठेति द्वितीयविशेषणेन च नित्यधर्मा अपि । इति विशेषणद्वयेन घटत्वशब्दनिष्ठव्यतिरिक्तनित्यानित्यनिष्ठसर्वधर्मनिषेधे सति द्विधा धर्मा अवशिष्यन्ते घटत्वं वा शब्दमात्रनिष्ठाः शब्दत्वादयो वा । तत्र घटत्वं घटत्वादन्यदिति न संभवति । तस्माच्छन्दमात्रनिष्टाच्छन्दत्वादेर्घटत्वमन्यदिति सिध्यति । शब्दत्वादेश्वानित्यनिष्ठेतिद्वितीयविशेषणविशिष्टत्वं तदैव स्यात् , यद्यनित्यः शब्दः स्यादितिशब्दानित्यत्वसिद्धिरिति । इह च पक्षघटत्वान्यत्वमादाय घटादौ सर्वत्र साध्यप्रसिद्धिरन्वेषणीया । घटवदित्यादयः इत्यत्रादिपदेन १ 'घटरूपं स्वव्यतिरिक्तशब्देतरानित्यनिष्ठत्वरहितानित्यान्यत् मेयत्वाद्बटवत् १ २ 'घटगन्धो घटगन्धव्यतिरिक्तशब्देतरानित्यनिष्ठत्वरहितानित्यनिष्ठान्यत् ज्ञेयत्वाद्धटवत् । इत्यादिसङ्ग्रहः ।। १ ।। __ इति सपक्षनिष्टधर्मपक्षीकरणप्रवृत्ता महाविद्या न्यरूपि । अथ विपक्षनिष्ठं धर्म पक्षीकृत्य प्रवर्तमाना महाविद्याभेदा यथा १ आकाशगतमेकत्वं आकाशगतैकत्वव्यतिरिक्तनित्यनिष्ठत्वरहितैतमछब्देतरानित्यनिष्ठत्वरहितधर्मान्यत्, मेयत्वात् घटवदिति ॥ १ ॥ १ ( आनं० )-आकाशगतैकत्वव्यतिरिक्ते सति नित्यनिष्टत्वरहितश्चासावेतच्छब्देतरानित्यनिष्ठत्वरहितश्च धर्मस्तस्मादन्यदित्यर्थः । आकाशगतमेकत्वमन्यदित्युक्ते गगनान्यदिति सिद्धमत उक्तम्धान्यदिति । घटत्वव्यावृत्त्यर्थमनित्यनिष्ठत्वरहितग्रहणम् । सुखादिव्यावृत्त्यर्थ नित्यनिष्ठत्वरहितग्रहणम् । अत्र कचिदनित्यत्वसिद्धिनिवारणाय-एतच्छब्देतरेति । अप्रसिद्धविशेषणत्वपरिहारार्थ १ 'निष्टत्वधर्मा इति ज पुस्तकंपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy