________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प०१
महाविद्याविडम्बनम् । णम् । शब्दत्वव्यतिरिक्तत्वे सति यदनित्यत्वात्यन्ताभावव्यतिरिक्तत्वं तद्रहितश्च शब्दत्वं वा स्यात्, अनित्यत्वात्यन्ताभावो वा । आद्योऽन्यत्वं न सिध्यति । न हि शब्दत्वं शब्दत्वादन्यदिति संभवति । तेन शब्दनिष्ठत्वरहितानित्यत्वात्यन्ताभावान्यत्वं पक्षे सिध्यति इत्यनित्यत्वात्यन्ताभावविरहरूपानित्यत्वसिद्धिः शब्दे ॥ १ ॥
(आनं० )-तथापि कथं साव्यपर्यवेसानमत्राह-स च पक्षनिष्ठत्वरहित इति । घटत्वव्यतिरिक्तत्वे सति शब्देतरानित्यनिष्ठत्वरहितश्चानित्यनिष्ठश्व, ततोऽन्यदित्यर्थः । घटत्वमन्यदित्युक्ते सुखादेरन्यदिति सिद्धसाधनमत उक्तम्-अनित्यनिष्ठान्यदिति । एवमपि घटत्वादिशब्देनार्थान्तरमत उक्तम्-शब्देतरानित्यनिष्ठत्वरहितति । शब्देतरानित्यनिष्ठत्वरहितानित्यनिष्ठान्यदित्यक्तेऽप्रसिद्धविशेषगत्वं, शब्दानित्यत्वसिद्धेः प्रागेवं रूपसाध्यासिद्धरत आहे x x x
(भुवन०)-अथाद्यविशेषणविशिष्टं धर्मद्वयं स्यात् । तदेवाह-शब्दत्वं वा स्यात् , एतच्छब्दनिष्ठत्वरहितो वेति । आयोऽन्यत्वमिति । शब्दत्वं च यथोक्तविशेषणविशिष्टमप्युपपद्यते. परं तत्पक्षे व्याहतम् । तस्यैव शब्दत्वस्य, तस्मादेव शब्दत्वादन्यत्वासम्भवात् । भिन्नयोरेव द्वयोरन्यत्वसम्भवात् । तेन द्वितीयान्यत्वं सिद्धयति । तथापि कथं प्रकृतसाध्यपर्यवसानमत्राह–स च पक्षनिष्ठत्वरहित इति । मूलानुमानापेक्षया पक्षोऽत्र शब्दो ग्राह्यः । पक्षनिष्ठत्वरहितमपि द्वेधा विकल्पयति-अनित्यत्वात्यन्ताभावेत्यादि । अनित्यत्वात्यन्ताभावो नित्यत्वम् । तद्व्यतिरिक्तो हि धर्मो नित्यत्वं विना घटत्वपटत्वगगनत्वादिकः सर्वोऽपि । द्वितीयविकल्पमाह-अनित्यत्वात्यन्ताभावो वेति । नित्यत्वं वेत्यर्थः । तत्राद्यस्य निरासाय द्वितीयविशेषणसाफल्यमाह-आद्यव्यावृत्यर्थमित्यादि । तथा च द्वितीयविशेषणेन घटत्वाकाशत्वादिसर्वधर्माणां निषिद्धत्वेन अवशिष्टं धर्मद्वयमेव स्यात् । तदेव चाह-शब्दत्वमिति । शब्दत्वं वा अनित्यत्वात्यन्ताभावो नित्यत्वं वा । आद्यान्यत्वसिद्धौ असंभवं ब्रूते-न हि शब्दत्वमित्यादि । पक्षे द्वितीयान्यत्वसिद्धौ एतच्छब्दानित्यत्वसिद्धिमाह तेन शब्दनिष्ठत्वेत्यादि । शब्दनिष्ठत्वरहितो योऽनित्यत्वात्यन्ताभावो नित्यत्वं, तस्मादन्यत्वं पक्षे शब्दत्वे सिध्यति । अयमाशयः-यद्यपि पक्षिते शब्दत्वे नित्यत्वान्यत्वे साध्यमाने सिद्धसाधनता स्यात् , तथापि शब्दनिष्ठत्वरहितं यन्नित्यत्वं तस्मादन्यत्वं शब्दत्वस्य तदैव स्यात्, यद्यनित्यः शब्दः स्यादित्येतच्छब्दानित्यत्वसिद्धिः । अत्र च शब्दत्वान्यत्वधर्ममुपादाय घटपटाकाशादौ तद्धर्मेषु घटत्वादिषु साध्यप्रसिद्धिर्दष्टच्या । एवं शब्देऽपि साध्यप्रसिद्धिज्ञेया । यतो धर्मधर्मिणोवैशेषिकादिमते भिन्नत्वेन शब्दत्वान्यत्वधर्मः शब्देऽपि सिद्ध एवेति परमार्थः ॥ १॥
इति पक्षनिष्ठधर्मपश्नीकरणप्रवृत्ता महाविद्या न्यदर्शि ।
अथ सपक्षनिष्ठं धर्म पक्षीकृत्य प्रवर्तमाना महाविद्याभेदा यथा१ आयेऽन्यत्वं इति ज पुस्तकपाठः । २ शब्दान्य इति ग पुस्तकपाठः । ३ आदर्श पुस्तके त्रुटितोऽयमंशः।
For Private And Personal Use Only