________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
नैवं सङ्ख्ययप्रदेशादय इत्यत्यन्तसूक्ष्माः समुल्लशितचक्षुरादिविषयभावाः । केवलाऽऽगमग्राह्येषु इति तथा अथ आगमपरिच्छेद्यषु प्रज्ञापनीयेवर्थेषु यः संशयो भवति-एवं म्यादसङ्ख्येयप्रदेश आत्मा अथनिष्प्रदेशो निरवयवत्वान्नवं स्यादिति इत्यादि। गणिराजपादाः स्पष्टमत्र स्पष्टयन्ति-आगमगम्यत्वमसख्यप्रदेशत्वादीनामात्मादीनां न तु धर्माधर्मादिसद्भावस्य । व्याख्याप्रज्ञप्तौ मट्टकश्रमणोपासकाऽऽख्यानमपि तथैवाख्यानसमीचीनतामाख्याति । न चासत्यः सोऽर्थः, भगवता प्रशंसितत्वाद्, विस्तरार्थिना स एवालापकोऽनुप्रेक्ष्यः । अत एव च न्यायाचार्यचरणा अपि न्यायालोके प्रोक्तयुग्ममिद्धये न्यायपथमितामशिथियन । अत्र च प्रदेशसख्यापरिमाणोपयोगवैशिप्रथाद् आगमोऽग्रतः कृतः, तावन्मात्रेण न केवलाऽऽगमिकताऽ नयोः, सद्भावप्रतिपत्तावपि स्वीकतव्या । तदर्थमेव च तुशब्दम्याप्यर्थतामाश्रित्य व्याख्यातं प्राग द्वितीयव्याख्ययेत्यलं विस्तरेण ।
तथा 'आगास 'त्ति । तत्र काश दीप्तौ' इति भौवादितः (क)तम्माद् व्यञ्जनान्ताद् : ।५-३-१३२ ] इति करणाधारे अनि आकाश इति नाम्न्येवम् । अन्यथा तु 'भावाकोंः ' [५-३-१८ ] इति घन अधिकरणे उभयथापि । आइ-मर्यादया स्वस्वभावापरित्यागेन काशन्ते-शोभन्ते धर्माधर्मादयोऽस्मिन् इत्याकाश आकाशं वा । काशन्ते च धर्माधर्मादयोऽत्रावगाढा अप्यनादिकालान म्वस्वभावापरित्यागेन । 'लोकाकाशेऽवगाहः धर्माधर्मयोः कृत्स्ने [तत्त्वार्थ] इति परमपुरुषवचनाद् धर्माधर्मयोरप्यवगाढत्वे लोका. काशप्रदेशेष्वभिशझ्या न विरुद्धता। सिद्धिश्चास्य ‘इह पक्षी 'नि प्रतीतिबलात् । उद्योतादीनां च परावय॑मानन्वाद् भूमिगृहादावपि
For Private And Personal Use Only