________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
पुरुषप्रणीतो वेदत्वादिति । आत्मत्वम्य जातिवादसंसारिवृत्तित्वसिद्ध सिद्धता परभतेऽपि साध्यम्य । वाक्यादपि । यथा वेदः पौरुषे यो वाक्यत्वात् , भारतवत् । तथा सङ्ल्याविशेषात् । विशेषत्वं च द्वित्वादिग्रहणान् : सा च द्वचणुकादिपरिमाणजनिका, तस्या अपि । यथा इयं सङ्ख्या बुद्धिजन्या सङ्ख्यात्वाद्, अस्मादायपेक्षाबुद्धचजन्यत्वान अतिरिक्तापेक्षाबुद्धिसिद्धौ तदाश्रयतयेश्वरसिद्धः जन्यपरिमाणवाच्च द्वयगुकपरिमाणभ्य सङ्ख्याजन्यत्व सिद्धिः । तदेवं स्वमतिकल्पितकल्पनाविषमाध्वनीनः साध्यते यथा तथा सचराचरस्य जगतोऽस्य परमपुरुषादिकृतत्वं प्रकृयुद्भवत्वं च । परं नैतयुक्तियुक्ततामन्वेति । कुन ? इति चेत् , लोकस्य प्रदेशप्रचनिष्पन्न त्वात् । यतो न तावत् प्रदेशस्य भवत्युपादानकारममन्यत् , प्रदेशत्वहाने । ब्रह्मण उपादानता च जडत्वापत्वेरयुक्तैन । अस्त्येव सत्प्राधान्यता ब्रह्मणि चिदानन्दप्राधान्यताबदिति चेत् । सत्यम् , परं भेदकाभावात् कथं भवेतामन्यान्यप्राधान्यतागौणत्वे, स्पष्टश्च विरुद्धधर्माऽभ्युपगमो ब्रह्मणि । निमित्तकारमतापि च च तस्य युज्यते, प्रदेशानां स्वभावत एवोत्पादादिपर्याययुक्तत्वात् । एतच्च ‘वर्तत , इत्यनेन ध्वनितम् । प्रकृत्युद्भवत्वं युक्त्यतिरिक्तमेव । यतो नहि गुणेभ्यो द्रव्योत्पादो विरहय्य प्रत्यक्षविरुद्धताभ्युपगमं कल्पयितुं शक्यः । न चाहङ्कारादिभवति जडस्वरूपायाः प्रकृतेः, न चाहङ्कारादिभ्यो भवदुपलभ्यते वा किञ्चिदपि मनोबुद्धीन्द्रियादि । न च बुद्धीन्द्रियादिभ्यो भूतोत्पत्तिभवन्तीति वक्तुं शक्नोति धादिवदा म्योऽपि कदाग्रहमन्तस । विश्वग्याप्यदारित्र्य म्याञ्चव । अनुमानानि च परमेश्वरकृतत्वसाधकानि लोकस्य सर्वाणि प्रागमिहितानि यानि,
For Private And Personal Use Only