________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
येनाणिम्ना परमाणुसूक्ष्मशरीरोऽपि सम्पद्यते, येन परमाणुसंयोजनादिकां निवर्तयितुमलं स्यात् क्रिया नैकत्र, तत्करणसामथ्र्य तु लघिमासम्पादितमित्युक्तमेव । अनेन च कथं महान शरीरेण कुर्यात क्रियामणोरणुर्वा महीधरादिघटनक्रियामिति निरस्तम् । शक्तयश्चैताः सहैवेति नैकदैककार्यविधानेन कालह्रास इतरविधानेषु । तथा च न कथाश्चिदपि विविधकार्यनिलयीभूतभवनोद्भावनादिविधानानहताऽस्य । न चेदमीश्वरप्रभावादेव केवलाञ्चिन्तामण्यादेरिव निर्धनतानिधनादिर्भवति, अगदाद्वाऽचेतनादामयोपशान्तिवदित्याहुः
" यत्रकामावसायित्व "मिति । कमन कामः-सङ्कल्पः , अवम्यतीत्यवसायी-निश्चायकः , सङ्कल्पस्याऽवसायी सङ्कल्पावसायी । यद्वा-सङ्कल्पेन सङ्कल्पमात्रेणावसायी सङ्कल्पावसायी । यत्र यादृशे यस्मिँश्च कार्येऽसौ सङ्कल्पावसायी तादृशं तद् भवति यतस्ततो यत्रकामावसायी । मयूरव्यंसकादेराकृतिगणत्वेन समासः तत्त्वम् । यद्वा-यस्मिन् सङ्कल्पयतीति यत्रसङ्कल्पः तदनुसारेणावसायी कारको निश्चायको यत्रकामावसायी तत्त्वम् । अव्ययस्य बाहुलकात् सङ्कल्पेन समासः , अन्यथा वा परिभावनीयम् । यथा यथा सङ्कल्पयति तथा तथैव सम्पादकत्वमस्य ! सङ्कल्पमात्रेणैव पदार्थानामुद्भवादिरिति तत्त्वम् । तथा च कथं कुर्याद् एकोऽनेकां परस्परविरुद्धरूपां प्रतिक्षणं क्रियामिति निरस्तम् । न च वाच्यं किं तर्हि अणिमादिवर्णनं शरीरांश्रितं हि तदिति । एतदैश्वर्यमस्य यदुत-सङ्कल्पेन क्रियया वा यथारुचि सर्वं सर्वथा विधत्ते । अत एवाष्टममैश्वर्यमुच्यते
“प्राप्ति "रिति । प्राप्तिमान् हि तथाविधो भवति यथा स्वयमवनितलाताऽपि अङ्गल्यग्रेण गगनस्थादि वस्तु प्राप्नोति-म्पृशति
For Private And Personal Use Only