SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविशिका इत्याहुः-'पुब्धि अभावओ 'त्ति । पूर्वम्-आदितयाऽभिमतात् कालात् आदौ, अभावात्-अविद्यमानत्वात् । अयमत्र भावार्थः-- यदादिश्यते आदिः , तदा नास्त्येव लोकोऽस्तिकाया वेति कथं तेषा तस्य स्वभावता ? सत्येव वस्तुनि स्वभावस्य विद्यमानत्वाद्, अन्यथा तस्य स्वभावत्वस्यैवाभावात् । न चाऽसतां तथास्वभावता युक्ता, तथास्वभावतास्वीकारादेव चादौ प्राप्तं तेषां लोकस्य वा तत्पूर्वकालविद्यमानत्वमिति । तथा च स्पष्टैव वाद्यभिमतहेतोविरुद्धता, तथास्वभा. वत्वलक्षणहेतुसद्भावादेव लोकस्यास्तिकायानामादित्वाभावप्राप्तेः । अस्योद्घटितार्थतां ज्ञापयन्त आहुः ‘भावियम्वमिणं 'ति । एतत्-पूर्वोक्तवाद्यमिमतपक्षस्य परिफल्गुत्वम् , भावयितव्य-चिन्तनीयं 'भूण अवकल्कने' इति वचनात् । भुवो विचारार्थता सहजविचारगम्यतैतत्पक्षबाधज्ञापनाय च भावयितव्यमिति । यद्वा-उपहासेन 'शक्ताह खलाश्चेति सूत्राद्वाऽऽदिपक्षस्य विचारणीयतां ज्ञापयन्ति। तथा च परिफल्गुरेवायं पक्ष इति भावः । अथवैवं योजनीयम्-पूर्वमभावादेषामादिमत्वमयुक्तमेतद् भावयितव्यमिति । अन्ये तु साङ्ख्यानां पूर्वपक्षत्वमत्राभिप्रेत्य धदन्त्येवं यदुत-- साङ्ख्यास्तावत् सत्वरजस्तमोगुणमयीमभ्युपगच्छन्ति प्रकृति प्रधानाव्यक्तशब्दवाच्यां नित्यस्वरूपाम् । ततश्च बुद्धयादिक्रमेण पूर्वप्रतिपादितन अहङ्कारादिपञ्चभूतान्तां सृष्ठिमभ्युपगच्छन्ति । अचेतनाया अपि प्रकृतेश्च जगदुद्भतिकारणत्वं पुरुषविशेषस्य तु ' असङ्गोऽयं पुरुष' इति वचनान्नाङ्गीकुर्वन्ति कर्तृ ता, किन्तु 'प्रधानसृष्टिः परार्थ खतोऽप्यभोक्तृत्वादुकुङ्कुम (वहन) वन् अचेतनत्वेऽपि क्षीरवच्चे For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy