________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
समानयोगक्षेमस्य न पर्यनुयोग इति हि नियमितं विद्वद्भिः । केन हेतुनाऽऽपादयति स तत्त्वमिति द्वापरय्य तदभिप्रेतं हेतुमाहुः-'तहासहावत्तकप्पणाए वि 'त्ति । तथा स्वभावत्वकल्पनयाऽपीति ।
यथाहि-भवन्तो धर्मादीनां तथास्वभावतामाश्रित्य साधयन्त्यनादितां लोकस्य पञ्चानामस्तिकायानां वा, तथास्वभावे पर्यनुयोगाभावाद् । अहमपि तं तान् वा तथास्वभावात् कल्पयामि यथाऽसन् असन्तो वा ते प्रादुर्भवन्ति, पूर्वोक्तादेव हेतोश्च । नैवात्र वाच्यमस्ति भवताम , अवकाशस्यैवाभावादिति । तथा चादिमाँल्लोकः पञ्चास्तिकाया वा, तथास्वभावात् , अग्नेर्दाहकतावत् । नहि अग्नेः कथं दाहकतास्वभावो, नाऽपामिति पर्यनुयोगः पर्यनुयोगप्रवणैरपि वादिभिः कर्तुं पार्यते । तथा चासिद्धप्रतिबन्धो हि स्याद् भवद्धेतुः । यद्वासत्प्रतिपक्षितमनुमान स्याद् हेतुसाध्यव्याप्तिसिद्धावपीति वाद्यमिप्रायः । अपिश्चान्यथानुमानस्यादृष्यतां साधयति, अनेन हेतुना साध्यमानमादिमत्त्वं वक्ष्यमाणदोषादनुमानविरोधप्रस्तत्वेन साध्यस्य बाधितं तथाऽन्यान्यपि वावदूकव्यागूर्णानां हेतूनामप्यसिद्धतादिप्रस्ततेवेति सूचितम् । तथा च अपिः सम्भावने । असत्यपि दूषणे 'नहि वदतो वक्त्रं वादिनो वक्रं भवती 'ति न्यायात् सम्भाव्यते अदः, परं न तेनापि बाधितं स्यादनुमानमिदमप्रतिहतशक्तिकं, वञवद् दुर्भेद्यत्वादिति तत्त्वम् ।
किमित्याहुः- एसिमजुत्त 'त्ति । एषां-धर्माद्यानामस्तिकायानां सन्मयत्वाल्लोकस्य च । यतः प्रकृतः स एव । पञ्चानामस्तिकायानां तु लोकस्य तन्मयत्वादुत्क्षेपः। 'अयुक्तम्' युक्तिशून्यम् , आदिमत्त्वमिति तु प्रकृतमेव । कथमयुक्तता धर्मादीनां लोकस्य वा आदिमत्वे ?
For Private And Personal Use Only