________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
लोकविंशिका म्यमाने स्पष्ट एवावस्थाभेदविहितः पराभ्युपगतैकान्तनित्यत्वबाधः, आदिमत्ता च ततः । एतदेवाहुः
अपरिमितद्धाए वि य सहावभेदमि तस्सऽणिच्चत्तं । पुव्वं व अकरणं पच्छओ वि तेसिं अभेदंमि ।।११। कारकेतरत्वस्वभावयोरभेदेऽविशेषे करणाकरणलक्षणविशेषोऽपि नैव युक्त इति तत्त्वम् ।
पू०-एषो चेव सहावो से गंतद्वाए कुणइ तीयाए । आ०-एगसहावत्ते सइ करणं वाऽणिच्चया भेदे ।।१२।। अथ स्वभावकृत्रिमतापक्षमौपचारिकमाश्रित्य तमाह-तेसिं चेव सहावो जं तस्सत्तामवेक्ख होंति तया । आ० जायाण पुणोऽभवणाऽजुत्तोऽजायाण उ विरुद्धो ॥१३।। विवक्षितकालात् पूर्वं जाताश्चेत् जाता एवेति न भवनम् । तथा चायुक्तोऽनुपयोगी स्वभावाङ्गीकारः। अजातानां च कथं स्वभावकल्पना युक्ता । तत्त्वतस्तूपादानं किञ्चित्तस्य च कल्पेत स्वभावः, तदेव तु नाङ्गीकृतं, करणे वा तत्राप्येष एव वादः सादित्वेऽन्यथा तु किमपराद्धं सत्त्वैः । अपरायत्तत्त्वमेवाश्रित्योच्यते___ मज्झत्यो य किमत्थं चित्ते इस्सरियमादिभेदेणं । सत्ते कुणतित्ति सिया कीडत्थमसंगया सा वि ॥१४॥ ' मध्यस्थ' इति । कर्मादिवैचिच्याविर्भावाभावात कर्माऽप्रेरितो वीतरागत्वाद्रागाप्रेरितश्चेति । 'ऐश्वर्यादिभेदेन चित्रान् सत्त्वानित्यनेन प्रत्यक्षेणाभ्युपगतेन च वैषम्येण कषुरुपहासो माध्यस्थ्यविषयो ध्वनितः । 'अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा' ॥ इति वचनादेश्वर्यादिवैशिष्टयमपि तत्कृतमेवेति प्रोक्तमैश्वर्यादिभेदेन चित्रानिति ।
For Private And Personal Use Only