________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
लोकविंशिका
वदन्यभवने च तत्तत्कार्यविगमे न किञ्चिदपि कार्य स्यात् , क्रियास्थित्यवगाहानृते किश्चिदपि विधातुमशक्यत्वात् । उत्पत्तिरपि कुतः कथं वा भवेत्तषामित्यप्यनेन प्रतिपादितमेव । ____ यत्तु 'आत्मन आकाशः सम्भूत' इत्यादि । तत्रापि चिन्त्यमेव । अचेतनोपादानाच्चेतनानुपपत्तेरिव चेतनोपादानादचेतनस्याप्यनुपपत्तेः। अस्वीकारे चैतस्य ब्रह्मणोऽपि भवेदाकाशादुत्पत्तिः। यश्च उदाहियते-सचेतनात् पुरुषात् केशादिप्रभवो दृश्यत एव । तदप्यबोधविलसितमेव, शरीरोपादानत्वात्तस्य । उच्यते चात एव-पित्रङ्गमात्रङ्गप्रभवत्वं तस्य तस्य केशादेस्त्वगादेश्च । न चाचेतनोपादानतामन्तरेण युज्यते एतद्विधानमाम्नातं वा। यच्चोच्यते-'सत्त्वं सर्वत्र' इति । तदप्यसमञ्जसमेव, यतो नहि सत्तामात्रेण कार्यसम्पत्तिः, तेनान्वयव्यतिरेकानुपलब्धेः, अन्वयव्यतिरेकानुविधाय्येव च कारणमिति ।
किश्च-ब्रह्म काऽभूत् प्राक्, यदा नाभूदाकाशः , अन्तरा तमवगाहाभावेन अवस्थानस्यैवाभावात् । अन्यच्च-'आत्मन आकाशः सम्भूत' इति गीयते । तत्र किं मृदो घट इव उपादानभूतादात्मन आकाशस्योत्पत्तिः ? किं वा विकासः कमलानां दिनकरादितिवदु. त्पादनादुत्पत्तिः ? । आये, ब्रह्मणि जडत्वापातः । अस्त्येव चेत्, सर्वव्यापकं तत् तत्र च जडत्वमिति सिद्धमनादिरेवाकाशादिः । द्वितीये तु वक्तव्यं तस्योपादानम् । न चानुपादानं क्रियते कुम्भजीवकेन कुटाद्यपि । यदेव चोपादानतयामिमन्यते तच्चेत् चेतनं, स्पष्टोऽचेतनोत्पादश्चेतनात् , स्पष्ट एव च भविता भवतामपि जडीभावश्चेतनत्वाविशेषात् । तन्नोपादानभूतान् निमित्तभूताद्वा आत्मनो घटते विहायस
For Private And Personal Use Only