________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
१५३
'जह मुच्छियाइयाणं अव्यत्तं सव्वविसयविनाणं । एगिदियाण एवं सुद्धयरं में दियाईणं' ।। ति । अत्र च ' अव्यक्त 'मिति स्तोकमनोद्रव्यप्रभवता वेदिता । 'सर्वविषये ' त्यनेन अतिदेश्यैकेन्द्रियादिष्वपि भावेन्द्रियपञ्चकस्य यथायथं सम्भवता ज्ञापिता, यत उच्यते‘पंचिदिओ वि बउलो नरोत्र सबिदिओवलंभाओ 'त्ति । अत्र ' सर्वेन्द्रियोपलम्भ' इति सर्वेन्द्रियोद्भवज्ञानम् , न तु सर्वाणीन्द्रियाणि । सर्वेषामारभ्यैकेन्द्रियेभ्यो यावत्संमूर्छनपञ्चेन्द्रियाः ताव. च्छुद्धशुद्धतरशुद्धतमो बोध इति तत्त्वम् । तारतम्यनिमित्तं किं तर्हि तेषां ? समानेऽप्यप्रशस्ते लघुनि च मनने सतीति निरस्तमेतेन, तथापि स्पष्टमाहुः
'तुल्ले छेयगभावे जं सामत्थं तु चक्करयणस्स । तं तु जहकमहीणं न होइ सरपत्तमाईणं' । ति । यद्यपि वैशिष्टथनिबन्धनं हेतुवादोपदेशिक्यस्ति सझा द्वीन्द्रियादीनामेकेन्द्रियेभ्यः स्पष्टतमवस्तुबोधने, तथापि न साऽऽहता अत्र, द्वीन्द्रियादितारतम्यस्यैतेनैव साध्यत्वात् । कीदृशी सेत्याहुः द्वितीयां वाऽऽहुः सम्ज्ञां____ जे पुण संचितेउ इठाणिठेसु विसयवत्थूसुं । वटुंति निवटुंति य सदेहपरिवालणाहेउ ॥ पाएण संपए चिय कालंमि न याइदीहकालन्ना । ते हेउवायसन्नी निच्चेट्ठा होति अस्सण्णी' ।। 'स्वदेहपरिपालनहेतु 'रिति कथनेन अन्यव्यापाराभावः । 'प्रायेण साम्प्रते काले' इत्यनेन कीटिकादीनां स्वालयविधानादिकदीर्घकालिकीसम्भवेऽविरोध इति ज्ञापयाञ्चक्रुः । अत एव चातिदीर्घकालज्ञा नैते इति स्पष्टं स्पष्टितम् । दृष्टिवादोपदेशिक्यपि प्रसङ्गानुरोधादेवात्र कथ्यते । सा चवं
For Private And Personal Use Only