SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविशिका १४१ इत्यभिप्रत्याहुः सूरया-'अणुसमयमणंतरियं गहणं जओ विमोक्खो वि । जुत्तो निरंतरो च्चिय 'त्ति । परः स्वावलम्बनीभूतसूत्रोपटुम्भनाऽऽह-' भणह कह संतरो भणिओ' इत्यवतार्य । 'गहणाविक्खाई तओ निरंतरं जंमि आई गहियाई । नवि संमि व निसिरह अह पढमे निसिरणं नत्थि' । निसर्गापेक्षया ग्रहणस्यापादितां सान्तरतां समादधते-'निसिरिजइ नागहियं'। परः-कथं पुनः सान्तरतेति चेत् । 'गहणतरियंति संतरं तेणं । न निरंतरं निसिरई' त्यस्य का गतिः ? इति चेत् । 'न निरंतरं न समयं न जुगवमिह होंति पज्जाया' इति । __ अत्रैदम्पर्यमिदम्-धिवक्षाकालं मर्यादीकृत्य प्रहणस्य ग्रहणकालं चाद्यं व्यवधाय निसर्गस्य व्याख्याने सर्व समीचीनमेव निरन्तरतयोभयस्येति । निसर्गश्च भाषेत्याहुः तत्र । ‘गहणं मोक्खो भासा समयं गहनिसिरणं च दो समया । होति जहन्नंतरओ तं तस्स च बीयसमयंमि'। 'ग्रहणं मोक्खो भासा गहण-विसग्गा व होति उक्कोसं । अंतोमुहुत्तमित्तं पयत्तभेएण भेओ सिं' । ग्रहणं न भाषा, निसर्गमात्रमेव भाषा 'भासिज्जमाणी भासे "ति प्रवचनानिसर्गस्यैव भाषाया 'उल्लेखः निसर्गस्य समयमानज्ञापनाय च तन्निर्देश इति । केचित्तु निसर्गसमयानन्तरमेव भाषापरिणामः , अत एव म्रियमाणस्योपरतस्य या द्वौ समयाविति । निसर्गश्च ताल्वाद्यभिघातान्तः , भाषा च तदनन्तरं भाष्यमाणपर्यवसानसमयोऽपि स एवेति । अत्र ग्रहणनिसर्गयोः नैरन्तर्याभिधानजामारेकामुदीरयते For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy