________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
नाय क्रियते तादृशो भेदस्तदाऽसौ प्रतरभेद इति । यदा च चतुरस्रादिभेदः तदा खण्डभेद इति । एवमेव च सुवर्णादीनां यथायथं भेदविभागिता अवगन्तव्या, भेदानुसारेणैव तत्तदाख्याऽङ्गीकारात् । यत्र च सूक्ष्मतमा अवयवा यथा भवन्ति तथा भिद्यते, तदसौ चौर्णिको भेदः । यथा मुद्गादिधान्यानाम् । यत्र चोत्किरणं भेदेऽसौ उत्करि काख्यः । यथा वंशत्वचः। यत्र च तटद्वैविध्यं भवति, यथा नद्याः तथाऽसौ भेदोऽनुतटिकाख्यः । यथा शुष्कहदादिकर्दमेषु । एते च भेदाः पञ्च न वस्तुनियमिताः, किन्तु भेदप्रकारनियता इति पूर्वोक्तं समुदायेऽनुसन्धेयम् ।
न च प्रवाहीकरणं सुवर्णादीनां यत् तदपि भेद एवेति कथं नोक्तो द्रवत्वाख्यः षष्ठो भेदभेद इति वाच्यम् । तत्र चौर्णिकभेदभावाद् द्रवत्वस्य नैमित्तिकत्वात् । यथाहि-चौर्णिकभेदेन भिन्नं मुद्गादि क्लिन्नमुदकेन तथा भवति, यथा धूलिसंयुक्ते पानीये कर्दम इति न षष्ठो भेदभेद आख्येयः। हिमादीनामुष्मणा यद् द्रवीभावगमनं तदपि तथैव । यद्वा-न तत्र भेद एव, यतः संयुक्तमेव तत्सर्वं किन्तु संयोगविशेष एव ।
ननु द्रवत्वाख्य एवं परिणामः कथं नोक्तो ? यतो नहि नास्ति द्रवत्वम् , जलघृतादिष्यध्यक्षसिद्धेरिति चेत् । सत्यं, यैरपि द्रवत्वं स्वीकृतं गुणतया, तैरपि नैव स्वीकृतं घनत्वं तथा पृथिव्यादिषु काठिन्यादिहेतुर्गुणतया, नहि तन्न विद्यते, संयोगविशेषत्वे तु तस्य, किं द्रवत्वमपि नैवम् ? । न च वाच्यं तैः संयोगाख्यो गुणः स्वीकृत एव, अस्माभिरपि बन्धस्य परिणामतया स्वीकृतत्वात् । संयोगस्तु सामान्येनापि पिष्टसमुदयक्द् भक्त्यपि, संयोगादिकाः क्रियाविशेषा
For Private And Personal Use Only