________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
२१३
म्थले प्रज्ञास्थापितगुणवियुक्तं तत्तद् द्रव्यं तथा तथा गीयते पारमर्ष, न तु सर्वथा द्रव्यनिक्षेपाप्रवृत्तिः , ज्ञशरीरभव्यशरीराभ्यां नोआगमस्याऽनुपयुक्तज्ञातारमपेक्ष्याऽऽगमस्य द्रव्यतः प्रवृत्तः । व्यतिरिक्तमपि च 'अर्पितानर्पितसिद्धे 'रिति परमपुरुषवचनाद् गुणाविवक्षायां पूर्ववत्तत्तद्वस्तुषु वर्तमानमनुसन्दधीत द्रव्य निक्षेपम् , यतो नास्त्येव द्रव्यगुणयोः सर्वथाऽभिदा, यया न तथा कल्पयितुं शक्यम् , गुणशून्यद्रव्याभावाच 'प्रज्ञास्थापित 'मित्युक्तरिति गुणवत्त्वलक्षणभावद्रव्यस्य तत्परिणामत्वाच 'भूतस्य भाविनो वे 'त्यादिलक्षणसङ्गतिः । तथाऽप्रज्ञापनीयेष्वपि पदार्थप्रमेयत्वादीनां सत्त्वमस्त्येवाप्रज्ञापनीयत्वाभिधानमपि, तन्न तत्र नामाभावः । विशेषनामाभावश्च तत्र न नामनिक्षेपव्यापकताघातकः । स्थापनाया अपि तेष्वन्येषु चानाकारेषु तत्तदाधारक्षेत्रानुकारेण घटाकाशस्येव घट इव तथा तथा तत्र तत्राकारस्योल्लेखितुं शक्यत्वात् नाभावः । आकाशस्यापि स्वयं आकृ. तिमत्त्वाभावेऽपि संस्थानेनोल्लेखयितुं केनापि शक्यत्वमेव । अवध्यादीनां च गुणगुणिनोरभेदत्वानुगत्या तद्वद्रव्यापेक्षया द्रव्यादिनिझपप्रवृत्तेः नाव्यापकता योग्या शङ्कितुं बुद्धिमतां कथञ्चिदपि ।
___ चतुर्णां नयविभागपर्यालोचनायां च 'भावं चिय सद्दनया सेसा सब्वेवि इच्छन्ति सव्वणिक्खेवे' इति वचनात् 'अहिगारो तिहि उ ओमण्य मिति वचनाच कालभेदेनाप्यनुसन्धेय इति न तद्विषयो विमर्दः । तत्र द्रव्यनिक्षेपे ‘दव्वे गहणनिसरणं परघे "ति वचनाद् भाषाद्रव्याणां ग्रहणं निसगोंऽनन्तरं पराघातश्चेति । तत्र निसर्गों भाष्यमाणावस्थाया अक्तिनो ' भासिजमाणी भासे 'ति वचनात् ।
For Private And Personal Use Only