SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ लोकविंशिका तथा, यावद्वाय्वनुपलम्भात् । यावलोकव्यापिनी हि शब्दवर्गणा, परं यदा तथा तथा संयोगानुकूल्यं तदा तथा तथोत्पद्यन्ते शब्दाः । न चैवं द्रव्यानुगुण्येन प्रभादेरपि तथात्वादेवानेकथा चोत्पद्यन्ते शब्दाः । स्थूलन्यायेन च शब्दानां द्वैविध्यं कीर्त्यते - भाषा ध्वनिश्चेति । तत्र भाषायां तावदतिशयितो विचारः । स च भाषा रहस्यात् श्रीकाशीस्थनिखिलविबुधविजयावाप्तन्यायविशारदपदानन्तरसमकालविहिता कसत्तपचेलिमबुद्धिविभवादर्शायमानसदालोक ग्रन्थशतविधानावगतहरिमहिमप्राज्यतरप्रभाववितीर्णविबुधततिन्यायाचार्यपदप्रतिष्ठितश्रीमन्महोपाध्याय - यशोविजयगणिच्धादवसेयो विस्तरार्थिभिः । संक्षेपच स्थानाशून्यार्थं निरूप्यते । " यथा-जत्थ य जं जाणिज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थ न जाणिज्जा चक्कयं निक्खिवे तत्थ || १|| इत्यनुत्तरपारमर्षवचने न्यूनतोऽपि निक्षेव्या एव चतुर्धा पदार्था इति पठितेर्नामादिचतुएकस्य व्यापिताभिधानात् भाषाया अपि नाम स्थापना- द्रव्य भावभेदेन विधातव्य एव निक्षेपः । न च वाच्यं कथं व्यापकत्वं चतुर्णां भवेदे - तेपाम् यतो जीवाजीवद्रव्यपदादिनिक्षेपविधानव्यग्रतायां न तावद् द्रव्यनिक्षेपोऽनुगतो भवति, अप्रज्ञापनीयेषु च ' पण्णवणिजा भावा अनंतभागो उ अणभिलप्पाण मित्यादिवचनात नामनिक्षेपस्य तद्भावात् तेषु स्थापनायाः तथा परमाण्वाकाशसिद्धादिष्वनाकारेष्वपि चाकाराभावात्तस्याः, अवध्यादीनां चाद्रव्यरूपाणामपि द्रव्यादिनिक्षेपस्य चाप्रवृत्तेः तेष्विति । प यतो जीवादिषु ज्ञशरीर भव्यशरीरव्यतिरिक्तनोआगमद्रव्यजीवादीनामभावः, जीवादीनामसतामुत्पादाभावाद् । अत एव तादृश For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy