________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
प्रत्यक्षत्वात् सुखवत् , पाकरूपादौ व्यभिचारवारणाय सत्यन्तम् । पटरूपादौ व्यभिचारवारणायाकारणगुणपूर्वकतेति । जलपरमाणुरूपादौ व्यभिचारवारणाय प्रत्यक्षेति । शब्दो न दिकालमनसां गुणः , विशेष. गुणत्वात् , नात्मविशेषगुणो बहिरिन्द्रियग्राह्यत्वात रूपवत् । इत्थं च शब्दाधिकरणं नवमं द्रव्यं गगननामकं सिद्धयति । न च वाय्ववयवेषु सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्वकः शब्द उत्पद्यतामिति वाच्यम् । अयावद्रव्यभावित्वेन वायुविशेषगुणत्वाभावादिति । तथा शब्दः क्वचिदाश्रितः गुणत्वाद् रूपवत् । न च शब्दम्य स्पर्शवदाश्रयः , स्पर्शासहकारित्वाद् बुद्धिवत , न च कालाद्याश्रयः , बहिरिन्द्रियग्राह्यत्वात् रूपवदिति परिशेषात् तत्सिद्धिरित्यादि ।
अत्र तावद् गुणत्वसाधनाय यदभ्यधायि-चक्षुग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वादिति, तदनैकान्तिकमेव । यतो गन्धपुद्गला वाय्वानीता नहि चक्षुपा गृह्यन्ते । न च बहिरिन्द्रियेण घ्राणेन न गृह्यन्ते, अस्ति च तादृशजातिमत्ता तेषामपि । न च विद्यते अत्रान्त
ाप्तिर्या साधयेत् शब्दस्य तथात्वम् , अनुकूलतर्काभावात् । द्वितीयमप्यनुमानं स्पर्शवद्विशेषगुणत्वाभावसाधकमपि व्यभिचार्यव, गन्धवहानीतगन्धपुद्गलगन्धप्रत्यक्षेण । तेषां हि गन्धो नाग्निसंयोगासमवायिकारणको, न च कारणगुणपूर्वकप्रत्यक्षो वेति । न च तेनास्माकं कार्यसिद्धिः , असत्प्रयुक्तत्वदर्शनमात्रत्वादेतस्येति । तत्त्वतस्तु तारमन्दादिविविधोपाधिमत्त्वाच्छब्दस्य द्रव्यतैवोदितुं युक्ता ।
किञ्च-शब्दस्य गुणत्वे कथं न यावदाकाशं सम्भवः । नहि पृथिव्यादौ गुणराहित्यम् , अनुद्भतत्वे च तम्य तत्र मानाभावः । न च
For Private And Personal Use Only