________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
तेषां सर्व च लोका आत्ताः सर्वं च कामाः स सर्वाश्च लोकानाप्नोति सर्वाश्च कामान् यस्तमात्मानमनुविद्य विज्ञानातीति ह प्रजापतिम्याच प्रजापतिरुवाच ॥६॥ इति द्वादशः खण्डः ।
अत्र हि छान्दोग्योपनिषदि स्पष्टमेवाऽऽत्मस्वरूपं पिपृच्छोरिन्द्रम्यान्यथान्यथोपदे शेनाभ्रान्तिपर्यवसानबोधोत्पादः । आसुरस्य तु स्पष्ट एवान्यथाबोध इति । न चात्र प्रयोजनं किञ्चित् तथाविधाने इत्यादिचिन्तया नात्र किश्चित् प्रयोजनम् , परं नात्र तद्वदन्यथान्यथाख्यानमिति ज्ञापनाय 'ज्ञेया' इति । तथा च आदित एव पारमार्थिक स्वरूपं पुद्गलानां व्याख्यायि अस्माभिः, ज्ञेयं च तत्तदनुसारेण च पुद्गला ज्ञेया इति पर्यबोथ्याचार्यैः । जीवादीनां तु तद्वैपरीत्यात् सुबोधता पश्चादेवेति तत्त्वम् ।
अथ पुद्गलानां गुणाः परिणामा उपकाराश्च ये साक्षात् पारम्पर्येण वा पूर्वमुद्दिष्टाः, ते आख्येयाः । तत्र गुणपरिणामेषु स्पर्शरसगन्धवर्णाः सपरिणामाः संस्थानच्छायाऽऽतपोद्योतान्धकारगतयश्च परिणामरूपाः प्राक् परिणामप्रतिपादनप्रस्तावे पर्यायलोकाधिकारे प्रतिपादिताः । शेषाः शब्दबन्धसौक्ष्म्यस्थौल्यभेदाः प्रतिपाद्याः उपकाराश्च सर्वेऽपि । तत्र शब्दस्य गुणत्वमुचिरे कैश्चिद्विपश्चिद्भिः, आकाशं च तत्समवायिकारणतया प्रत्यपीपदन् ।
आहुश्च-शब्दो विशेषगुणः , चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात् स्पर्शवत , शब्दो द्रव्यसमवेतो गुणत्वात् संयोगवत् इत्यनुमानेन द्रव्यसमवेतत्वे शब्दस्य सिद्धे, शब्दो न स्पर्शवद्विशेषगुणः, अग्निसंयोगासमवायिकारणकत्वाभावे साकारणगुणपूर्वक
For Private And Personal Use Only