________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आपयन् ।
( १६ ) समग्रे नगरे जाता ख्यातिः चित्रकराः किल ॥११४॥ धर्मान्तरस्य तु संपर्कात् श्राद्धाः जाता विधर्मिणः । तान्पुनर्वालयामासुराशु तेन तपोबलात् ॥११५॥ श्राद्धाः श्राद्धयश्च सौजन्यं दध्रुर्पुनर्जिनालये । नैकांस्तारयामासुरासुमव्यान् जनान् सुधीः ॥११६।। जितकाशीमिव स्वात्म प्रतिमन्य सूरीश्वरः । धर्मध्यानैक तल्लीनो मीनो यथा जलाशये ॥११७॥
प्रसंस्थाप्य सुतीर्थानि स्वात्मं धर्मे विधापयन् । अन्तेऽनशनमादाय स्मारं स्मारं जिनाधिपान् ॥११८॥ सर्वान् जीवान् क्षमन् संतस्त्यक्त्वा मायान्वितं जगत् । स्वर्ग गताः सुधीमतः हंत ! देवेन किं कृतम् ॥११९॥ संवत् क्षपांकशेषेन्दुरब्दे वैशाखमेचके ( सं० १८९७) तृतीयायां तिथौ भौमे दिवं याताः सुरीश्वराः ॥१२०॥ तच्छिष्यो वररूपचंद्र कविनां ह्यमेश्वरः पाठकः संजातो गुरुवजिनेन्द्ररसिको धर्मोन्नतेः कारकः । तच्छिष्याः वरदायकाः मतिमतां मान्या वदान्याः सदा सूरीन्द्रा भुवनेऽत्र भास्वरनिभा न्यायांबुधेर्धारकाः ॥१२१॥ जन्मामवद्यस्य विशुद्धवंशे, करांकनागेन्दुप्रसिद्धवत्सरे !
For Private And Personal Use Only