________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १५ ) विद्यावादविवादयोश्चनिकषा जाज्वल्यमानास्वतः ॥ तत्वातत्वविवेचने मतिरति विद्योतते चंद्रवत् । यस्यैवंविधसुन्दरागुणततिः लक्षात्परं चागताः॥१०८॥ संवदश्वरसाष्टवारनिधिजं पूर्व हि वर्ष मुदा । पट्कार्याणि शुभानि यानि विधिवजातानि तद्धस्तकात् ॥ येनाद्यापि सुतीर्थकानि सततं रक्षति धर्माशयात् । कल्याणं कुरुतां सदा जिनवरा भव्यांबुजा तान्प्रति ॥१०९॥
गंगानदीस्थविविधानि च यानि कानि पात्राणि यानि सततं समलंकृतानि । मासे मधौ भवति तं बुडवेति मेलम् लोकाः मिलंति विविधाशयकास्तदानीम् ॥११॥ जगुश्च कार्यकर्तारः सूरीणं प्रतिसत्वरम् । यास्यामो हि वयमद्य बुढ़वामंगले प्रभो ॥११॥ तदा प्रोक्तं सूरिणवमत्रस्था प्रपश्यतु भो । इहैव तृतीये यांति प्रहरे पोता हि स्वयम् ॥११२।। वायुना प्रेरिताः पोता: समग्राश्च समाययुः । रामघाटेतिचिन्तादि दृष्ट्वा मोहं विदधिरे ॥११३॥ स्फारं दृष्ट्वा चमत्कारं नेमुः सद्गुरु पंकजे ।
For Private And Personal Use Only