________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११ ) चिंतामणिपार्श्वजिनस्य बिंब यदि लभेच्चेत् सकलार्थसिद्धये ॥७८।। चतुर्थकालीन देवाधिष्ठितश्री प्रभुपार्श्वनाथप्रतिमा प्राप्तिः इति विकल्पो-हृदयेषु जातः सूरीश्वराणां-हि विशुद्धज्ञानिनाम् । रात्रौ तदाधीश्वरदेवकेन दत्तं हि स्वप्नं सकलार्थसिद्धिदम् ॥७९।। पांचालदेशस्य समोस्ति श्राद्धोऽत्र. स्टेशन मुगलाभिधे । पार्श्वेऽस्ति तस्य किल पार्श्वनाथ चिंतामणिनामकबिंबभव्यम् ॥८॥ पण्यं प्रदाय तस्य त्रिंशद् रुप्यकात्मकं श्रीमन् । लात्वा श्रीजिनबिंबं स्थाप्यं नव्ये मंदिरे धीमन् ॥८१॥ प्रातः समेत्य हि सुश्राद्धयुतैः सुधीमन् ।
श्रीपार्श्वनाथ जिनबिंबयथोक्तमूल्यम् ॥ दायं सुतुष्टिकररूपविलोक्य श्राद्धाः ।
चिंतामणेः सरसपार्श्वजिनेश्वरस्य ॥८२॥ संस्थापितं प्रवरभावयुतेन सम्यक् ।
चिंतामणिनिभनिरूपमभावयुक्तम् ॥ सूरीश्वरेण विधिना विविधप्रकारैः ।
श्रीपार्श्वजिनबिंबमनोभिरामम् ॥८३॥ अद्यापि तं समरसांकित शुद्धरूपम् ।
नेत्रांमृतांजनसमं सकलार्थसाध्यम् ॥
For Private And Personal Use Only