________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्मा प्रयातु प्रलयं तु यातु नैवानुसंधाऽस्मदीया प्रयातु ॥३८॥ परं न कार्य नवरं कदापि आर्य विना कोपि विशालकार्यम् । सदा विचार्य सहसा न धार्य कार्य शुभार्य प्रतिसंविचार्यम् ॥३९॥ एवं मत्वा चेतसि धीरवीरः कुर्वन्नित्यं मंत्रराजाधिजापम् । तस्याधीना वाग्मिकानां वरेण्या जाता ख्याता वादिरूपा विचित्रा॥४०॥ चरणकरणमध्ये ख्यातिरस्यातिजाता
परमविमलमंत्र मुख्यधीमन्यमानः । नरपति रपि तेषां पंकजे संप्रणाम
कारं कारं काष्ठजिह्वातिप्रेम्णा ॥४१॥
काष्ठजिह्वाम्वामिसंम्मेलनम्काष्ठजिह्वाख्यसंन्यासी सर्वशास्त्रविशारदः।
अद्वैते शांकरः कोऽपि तर्केऽपि गौतमो परः ॥४२॥ उत्तरोत्तरवक्ता च ब्रुवतोऽपि घृहस्पतेः ।
रसनां कलहेमूलां धर्षितारातिमंडलां ॥४३॥ सर्वानर्थकरौं बुध्वा काष्ठे गुप्ति चकार सः ।
तदा प्रभृतिमारभ्य काष्ठजिह्वेति विश्रुतः ॥४४॥ विश्वविख्यातयशसः काशिराजस्य भूभृतः ।
काष्ठजिह्वः गुरुः साक्षाद् पंडितःप्रवरो महान ॥४५॥
For Private And Personal Use Only