________________
Shri Mahavir Jain Aradhana Kendra
परिशिष्ट ओ
www.kobatirth.org
कः कर्ता दितिसृनुसूदनमिति ध्यातुर्विधातुः पुरा सन्ध्याम्भश्चुलुकाद्भटो भवदसिं दैत्यैः समं कम्पयन् ॥ ५ ॥
चौलुक्यादमुतः समुद्ररसनोद्धारैकधौरेयता
दुद्ध (*)र्षादुदभृद्वदंचदभयश्चौलुक्यनामान्वयः । जातास्तत्र न के जगत्त्रयजयप्रारम्भनिर्दम्भदो
स्तम्भस्तम्भितविश्वविक्रमचमत्कारोज्जिता भृभुजः ॥ ६ ॥
तेषामुद्दामधाम्नामसमतममहः संपदां सम्प्रदायै
वीरश्रीदर्पणानां दिवसपतिरिव द्योतकोऽभूत् राजार्णोराजनामा रणरुधिरनदीशोणमणधिमरणो
Acharya Shri Kailassagarsuri Gyanmandir
भारैर्द्विट्त्रैणसांद्रांजननयनभवैः श्यामतामानयद्यः (*)॥७॥
यस्यासिः समराम्बरे बुधरवद्वारा प्रपातै रिपुस्त्रीगण्डस्तनभित्तिचित्ररचनाः स्मर्तव्यमात्राः सृजन् । तेने कामपि तां प्रतापतडितं यस्याद्युतियतते
ऽद्यापि स्थाणुललाटलोचनदिनस्वाम्यौर्व्ववह्निच्छ(*)लात्॥ ८ ॥
अङ्गचङ्गीमतरङ्गितरङ्गा रङ्गदुल्वणांगुणप्रगुणश्रीः
राजनीतिरिव यस्य नरेन्दोर्वल्लभाऽजनि सलक्षणदेवी ॥ ९ ॥
तस्मिन्निन्दुकलोपदंशकसुधा कल्पद्रुदत्तासव
स्वादेभ्यो द्युतधूजनाधरर(*)सं सम्बुध्यमानेऽधिकम् । तत्पुत्रो लवणाब्धितीरविलसद्वीरप्रणादो जय
प्रासादो लवणप्रसादनृपतिः पृथ्व्याः प्रपेदे पतिः ॥ १०॥ रणप्रणुन्नारिमनःप्रसादः सधर्म्मकर्म्माप्तशिवप्रसादः (*)।
दानप्रता नक्षतविप्रसादः कस्यानमस्यो लवणप्रसादः ॥ ११ ॥
For Private and Personal Use Only
૨૪૩