SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालकारचूडामणौ काव्यानुशासने माकृष्य स्थापितानाम् , शिलीमुखानां-बाणानाम् , व्यतिकरः-सम्बन्धो येषां तान् इमान-प्रत्यक्षतो दृश्यमानान्, किरातान-म्लेच्छविशेषान् व्याधान , किं नो पश्यत-कुतो न विलोकयत, अवश्यं विलोकयतेति व्यङ्गयम्, एवम् , आरात्दूरे समीपे च; व्यामृतानि-भक्षणप्रवृत्तानि, पीतलोहितानि-पानविषयीकृतशोणितानि, मुखानि येषां तान्-अग्रतो वर्तमानान् , पलाशान्-मांसभक्षकान् राक्षसान् , किं न पश्यत, किञ्च पुरः-अग्रे, वने, एनं-संमुखस्थम् , केसरिण-सिंह, वसन्तंस्थित, किं न पश्यत ? इत्थञ्च भयकारणानि समुपदर्य ततः कर्त्तव्यमुपदिशतिजीवितानि रक्षत, व्याध-राक्षस-सिंहेषु प्रत्येकस्यापि जीवितहरणे प्रसिद्धतया सर्वेषामिह सान्निध्ये जीवितरक्षायै यतध्वम् , सहसा भयाक्रान्तरस्माभिः क उपाय आलम्बनीय इति तेषां पृच्छामभिलक्ष्याह-प्रियां देवतां-स्वस्वेष्टदेवतां, शरणं यात, नान्यः कश्चन पराक्रमादिरिह कार्यकरो भविष्यति, अत इष्टदेवताशरणाश्रयणमेव वरमिति । एष चार्थों बाह्यः । आभ्यन्तरश्चायमर्थः-दूरत एव सौरभाकृष्टभ्रमरसम्बद्धान् , इमान् , किरातान्-भूनिम्बवृक्षान् , तथा सर्वतः प्रसृतपीतमिश्रितरक्तमुखान् इमान् पलाशान्-पलाशगुमान् , वने च केसरयुक्तं-पुन्नागपुष्पयुक्तं, वसन्तम्-ऋतुराजं, कें न पश्यत, एतादृशे काले पथि न स्थेयम् , जीवितरक्षा कार्या, प्रियां-स्वप्रियतमामेव, देवताम् , एतादृशे समये जीवितरक्षादक्षां शरणं यात-आश्रयत, अत्र श्लेषण किरात-पलाश-सिंहैः सह तत्तत्पदापरार्थभूतपुष्पविशेष-द्रुमविशेष-केसरपुष्पयुक्तवसन्तर्तुपदार्थानां साम्यं व्यङ्ग्यम् , तथा च किरातादिभीतैरिष्टदेवताश्रयणमिव वसन्ततदीयपुष्पादिदर्शनभीतैश्च प्रियाश्रयणं कार्यमित्युपमानोपमेयभावो गम्यते । अत्र ‘पश्यत' इत्यस्य स्थाने 'पश्यथ' इति पाठो युक्तः प्रतिभाति । अत्रत्यपदस्य पदयोर्वोपजीवनं यथा "मा गाः पान्थ ! प्रियां मुक्त्वा दूराकृष्टशिलीमुखम् । स्थितं पन्थानमावृत्य, किं किरातं न पश्यसि ?॥" _ [का० मी० ११ अ० उ०] "पान्थ ! प्रियां मुक्त्वा मा गाः, [कुत इति चेत् ] दूराकृष्टशिलीमुखम् , पन्थानम् , आवृत्य स्थितं किरातं किं न पश्यसि ?" इत्यन्वयः । अत्र च पूर्वपद्यस्थितानि 'प्रियाम् , दूराकृष्टशिलीमुखम् , किरातम्' इति कतिचित् पदानि आनुपूव्यवोपजीवितानीति स्पष्टम् ॥ पादोपजीवनमित्यनेन श्लोकचतुर्थांशरूपपाद-पादद्वय-पादत्रयोपजीवनं संगृह्यते, पादचतुष्टयोपजीवनं तु साक्षाचौर्यमेवेति तत् कविसमयविरुद्धम् । For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy