SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १० । तयोरुपरिन्यस्तं हृदयाश्वासकत्वात् तत्रापि स्थापितम्, आदरणीयत्वात् सीमन्ते निहितम्, सदा तस्य सन्निधानाय वैनत् स्थापयामीत्यवस्यन्तीभिः कथञ्चन बहु, विचार्य, कर्णावतंसीकृत कर्णयोभूषणत्वेन धारितमिति भावः । J > अत्र मूलभूतो भावः 'क्षितिपरिपुवधूनां मनसि वर्षासमयसूचककदम्बकुसुमदर्शनेन प्रियविप्रयोगविधायि वर्ण्यं विजयिराजजययात्रायाः कियते कालाय विरामं ज्ञात्वा तासामानन्दोदयः' इत्येव स चोभयत्र सम एव, किन्तु प्रतिपादनरीतिस्तथा परिवर्त्तिता यथाऽसावर्थो नवीकृततया भिन्न इवाभासते । अस्य परपुरप्रवेशतुल्यता चेत्थम् - यथा किञ्चित् पुरं पूर्वं सकृद् दृष्टम्, कालान्तरे च जाते तदीयगृहमार्गादिसंस्काररूपे परिवर्तने पुनस्तदेव पुरं प्रविशताऽन्यपुरत्वेन सन्दिह्यते, तथैवात्रापि भवतीति तत्तुल्यत्वम् । एतेषु च चतुर्षु भेदेषु तारतम्यविचारे यथोत्तरोत्तरं प्राधान्यमवगन्तव्यं तथैवोत्कर्षस्य प्रतीयमानत्वात्, कस्यचन वस्तुनः प्रतिविम्बापेक्षया आलेख्येऽधिकस्य सौन्दर्यस्य, ततोऽपि तत्तुल्यतायां ततोऽपि तुल्यत्वे सत्यपि भेदप्रतिभासस्याधिकतर चमत्कारकारित्वस्य सर्वानुभवसिद्धत्वात् उत्तरोत्तरं च कवेर्व्यापारस्य गौरवमपि तेषामुत्कर्षे मानम् । एवं संपूर्णस्य काव्यस्योपजीवनभेदा निरूपिताः || " ६९ सांप्रतं पद- पादाद्युपजीवनमुदाहरणादिभिव्यक्तीक्रियते, पूर्वत्रार्थोपजीवनमुदाहृतमिह शब्दोपजीवनमुदाहियत इति वा विज्ञेयम्, तत्र पूर्वकविकाव्यस्थं पदं पदानि वा स्वकाव्ये यत्र निवेश्यन्ते तत् पदोपजीवनमित्याख्यायते, तथाहि"दूराकृष्ट शिलीमुखव्यतिकरान् नो किं किरातानिमानाराद् व्यापृतपीतलोहितमुखान् किं वा पलाशानपि । पान्थाः ! केसरिणं न पश्यत पुरोऽप्येनं वसन्तं वने, मूढा ! रक्षत जीवितानि शरणं यात प्रियां देवताम् ॥” [ का० मी० अ० ११ ] wwwww " [] है ] पान्थाः ! दूराकृष्टशिलीमुखव्यतिकरान् इमान् किरातान् किं नो पश्यत, किंवा आरात् व्यापृतपीतलोहितमुखान् पलाशान् अपि न [ पश्यत ], पुरः वने एनं केसरिणं वसन्तम् अपि न [ पश्यत ], मूढाः ! जीवितानि रक्षत, प्रियां देवतां शरणं यात" इत्यन्वयः । कश्चित् कारुणिको वसन्तेऽपि प्रवसतः काँश्चित् पथिकान् भीषयन् सश्लेषमाह-भोः पथिकाः ! दूरादाकृष्टानां कर्णपर्यन्त For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy