SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८ सालङ्कारचूडामणौ काव्यानुशासने __ “यस्यारातिनितम्बिनीभिः, प्रावृषि, स्फूर्जद्गगर्जितनिर्जिताम्बुधिरवस्फाराभ्रवृन्दाकुलम्, अम्बरं, वीक्ष्य, उत्सृष्टप्रसभाभिषेणनभयस्पष्टप्रमोदाश्रुभिः, किञ्चित्कुञ्चितलोचनाभिः, कदम्बानिलाः, असकृत् घ्राताः” इत्यन्वयः, कस्यचिद् राज्ञो वर्णनप्रस्तावे कविराह-यस्य-वर्णनीयस्य राज्ञः, अरातिनितम्बिनीभिःशत्रुकामिनीभिः, प्रावृषि-वर्षासु, स्फूर्जद्भिः-परितः प्रसरद्भिः, गर्जितैः, निर्जितःअधरीकृतः, अम्बुधेः-समुद्रस्य, रवः-शब्दो यैस्तथाभूतानां, स्फाराणां-विपुलानाम्, अभ्राणां-मेघानां, वृन्देन-समूहेन, आकुलं-व्याप्तम्, अम्बरम्आकाशम् , वीक्ष्य-अवलोक्य, उत्सृष्टं-त्यक्तं, प्रसभेन-हठात् , अभिषेणनस्यतव सेनयाऽऽक्रमणस्य, यत् भयं तस्मात् , स्पष्टानि-प्रकटतया दृश्यमानानि, प्रमोदाश्रूणि-आनन्दजनयनजलानि यासां ताभिः; किञ्चिद्-ईषत् , कुञ्चितानिवक्रीकृतानि, लोचनानि याभिस्ताभिः, एतादृशीमवस्थां गताभिः, कदम्बानिलाःवर्षासमयसमुत्थकदम्बपुष्पसंसक्तवायवः, आश्वस्ततया, असकृत्-भूयो भूयः, आघाताः-घ्राणविषयीकृताः । अयमाशयः-त्वदीयरिपुवधूनां हृदि सदेव त्वदाक्रमणेन भाविप्रियवियोगशङ्का तिष्ठति, किन्तु वर्षासमयसूचकमेघसमूहदर्शनेन कदम्बकुसुमसम्पर्कसुरभिवायुसत्तया च वर्षासमयागमनज्ञानेन राज्ञामेषोऽभियानसमयो नेति विश्वासेन हृदयाद् भयापगमे सति, तात्कालिकसुरभिवाय्वाघ्राणरूपं सुखमनुभवन्ति ता इति । एष आधारभूतोऽर्थः। एतस्य च्छाया चेह परपुरप्रवेशवत् समाश्रिता "आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं, यात्राभङ्गविधायिनो जलमुचां कालस्य संसूचकम् । हृष्यद्भिः परिचुम्बितं नयनयोन्यस्तं हृदि स्थापितं, सीमन्ते निहितं कथञ्चन ततः कर्णावतंसीकृतम् ॥" [का० मी० अ० १२] “यस्य अरिदारैः हृष्यद्भिः यात्राभङ्गविधायिनः जलमुचां कालस्य संसूचकं नवं कदम्बकुसुमं प्रियतः आच्छिद्य परिचुम्बित, नयनयोः न्यस्तं हृदि स्थापित सीमन्ते निहितम् , ततः कथञ्चन कर्णावतंसीकृतम्" इत्यन्वयः । यस्य शत्रुस्त्रीभिः, कदम्बकुसुमदर्शनात् हृष्यन्तीभिः, तदीयजययात्राप्रतिकूलसमयसंसूचकं प्रियकरस्थितं तासामेवाश्वासनाय तेनोद्यानादानीतम् , कदम्बकुसुमम् , तस्य हस्ताद् बलाद् गृहीत्वा, अतिशयप्रमदजनकत्वाचुम्बितम् , नयनयोरप्यानन्ददायित्वात् For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy