________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७
प्रकाशाभिधविवृतौ अध्या० १, सू० १०। "प्रतिगृहमुपलानामेक एव प्रकारो, मुहुरुपकरणत्वादर्धिताः पूजिताश्च । स्फुरति हतमणीनां किन्तु तद्धाम येन,
क्षितिपतिभवने वा स्वाकरे वा निवासः ॥" [ का० मी० १२] "उपलानाम् , एक एव प्रकारः, उपकरणत्वात् प्रतिगृहं मुहुः अर्धिताः, [कचित् ] पूजिताच, किन्तु हतमणीनां तद्धाम स्फुरति येन क्षितिपतिभवने स्वाकरे वा निवासः [ भवति ]" इत्यन्वयः । उपलानि-अश्मखण्डानि, उपकरणरूपेण-पेषणादिसाधनरूपेण परिमाणादिरूपेण वा, प्रतिगृहं, स्वकीयम् , अर्घमूल्यम् , प्राप्नुवन्ति, स्वयोग्यतानुरूपं स्थानं लभन्ते, क्वचिद् देवत्वेन पूज्यन्ते च, किन्तु विधिहतानां मणीनां तु किमपि तेज एव तादृशं यस्य प्रकाशे सति क्षितिपतिभवने निवासः, राज्ञामेव तदीयादानार्हत्वात् , तेजसोऽप्रकाशे सति च स्वाकरे-स्वोत्पत्तिस्थानभूते पर्वतादिकन्दरे वा निवासो भवति । अत्राधारभूते पद्ये प्राणिविषये यादृशो व्यवहारो वर्णितः, तादृश एवेहोपलानां विषये इति यद्यपि विषयकृतो भेदोऽस्त्येव तथापि वर्णनस्य नितान्तसादृश्यादभेद एव स्पष्टं प्रतीयत इति तुल्यदेहितुल्यत्वमिति ॥
अथ परपुरप्रवेशप्रतिमतयोज्जीवनं निरूप्यते-तत्र वाग्भटः-“यत्र काव्यस्य जीवितव्यैक्यं परिकरबन्धस्तु दूरादेवान्यस्तत् परपुरप्रवेशतुल्यम्" इति [काव्यानुशासने १० अध्याये-] एतदेव राजशेखरेणेत्थमुक्तम्
"मूलैक्यं यत्र भवेत् परिकरबन्धस्तु दूरतोऽनेकः ।
तत् परपुरप्रवेशप्रतिभं काव्यं सुकविभाव्यम्" [का० मी० अ० १२] यत्र-ययोः काव्ययोः, मूलैक्यं-वर्णनीयवस्तुनः साम्यं भवेत् , परिकरबन्धःग्रन्थनम् , दूरतः अत्यन्तम् , अनेक:-भिन्नभिन्नः, भवेत् , तत् सुकविभाव्यम्उत्तमकविकार्यम् , परपुरप्रवेशप्रतिमकाव्यं भवतीति शेषः। यथा
"यस्यारातिनितम्बिनीभिरभितो वीक्ष्याम्बरं प्रावृषि, स्फूर्जद्दर्जितनिर्जिताम्बुधिरवस्फाराभ्रवृन्दाकुलम् । उत्सृष्टप्रसभाभिषेणनभयस्पष्टप्रमोदाश्रुभिः, किञ्चित्कुञ्चितलोचनाभिरसकृदू ध्राताः कदम्बानिलाः ॥'
[काव्यमीमांसा० अ० १२]
mm
For Private And Personal Use Only