SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ सालङ्कारचूडामणौ काव्यानुशासने नीलकण्ठस्य' इत्यत्र वर्णितमेव वस्तु केनचित् संस्कारेण परिवर्तनेन भिन्नवत् कृतमिति आलेख्यप्रख्यं काव्यम् ॥ अथ तुल्यदेहितुल्यस्य लक्षणम् -- "विषयस्य यत्र भेदेऽप्यभेदबुद्धिनितान्तसादृश्यात् । तत् तुल्यदेहितुल्यं काव्यं बनन्ति सुधियोऽपि ॥" [का० मी० अ० १२] यत्र विषयस्य भेदेऽपि नितान्तसादृश्यादभेदबुद्धिस्तत् तुल्यदेहितुल्यं काव्यं सुधियोऽपि बन्नन्ति । छायोपजीवनं हि पूर्वकाव्यवस्तुना सादृश्यम् , तच्च वर्णनीयवस्तुन ऐक्ये वर्णनप्रकारभेदेऽपि भवति, तस्य प्रकारद्वयं पूर्वमुक्तम् । साम्प्रतं वर्णनीयवस्तुनो भेदेऽपि वर्णने सादृश्यादभेदबुद्धिरूपं प्रकारान्तरं तुल्यदेहितुल्यतयोक्तम् , यथा चैत्राद् वस्तुगत्या भिन्नोऽपि तद्भाताऽऽकारसादृश्यादभिन्न इव प्रतीयते, तत्र किं कारणम् ? देहिनो भेदेऽपि देहस्य तुल्यतयाऽभेदभ्रम एव, तत्र यथा देहसादृश्याद् देहिनः सादृश्यं प्रतीयते तथाऽत्राऽपि देहरूपस्य वर्णनक्रमस्य सादृश्याद् वर्णनीयवस्तुनोऽभेद आभातीति । अत्र सुधियोऽपीति कथयता 'इत्थं काव्यरचनाया न दोषावहत्वमपि तु प्रशंसनीयत्वमेव' इति बोधितं भवति, कविसम्प्रदायश्चैतदनुकूल एवेति च ज्ञाप्यते । तत्रोदाहरणेऽयमाधारभूतः श्लोकः "अवीनादौ कृत्वा भवति तुरगो यावदवधिः, पशुधन्यस्तावत् प्रतिवसति यो जीवति सुखम् । अमीषां निर्माणं किमपि तदभूद् दग्धकरिणां, वनं वा भूमीभृद्भवनमथवा येन शरणम् ॥” [ का० मी० अ० १२] "आदी अवीन् कृत्वा, यावत् तुरगः अवधिः भवति, तावत् पशुः धन्यः, यः प्रतिवसति, सुखं जीवति, अमीषां दग्धकरिणाम् , किमपि तत् निर्माणम् अभूत् , येन वनम् , अथवा भूमीभृद्भवनं वा शरणम्" इत्यन्वयः । मेषानारभ्य अश्वान् यावत् ये गृहपशवः सन्ति ते प्रतिगृहं वसन्ति, आदरिद्रं सर्वेः परिपालितत्वाच्च सुखं जीवन्ति, एते च गजा दग्धाः-हतभाग्याः, येन एतेषां कृते राज्ञो भवनं [ यदि भाग्यालब्धम् शरणम् , तदभावे च वनमेव शरणम् , नान्यत्र क्वचिदेते जीवनं यापयितुमीशाः, एतदेव तेषां हतभाग्यत्वं यद् विरल एव तेषामाश्रय इति । अस्मादर्थाद् भिद्यमानोऽपि समानतया प्रतिभासमानशार्थ एवमुपनिबध्यते For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy