SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू०१०। ६५ www घटिता:-लग्नाः, स्फुरन्तः-चञ्चलाः प्रकाशमाना वा, फणिनः, वः पान्तु । चन्द्रस्य शिरःप्रदेशस्थितस्य सम्बन्धि यदमृतं तदेवाम्बुजलं तस्य कणैः सेकेनसिञ्चनेन सुखं-निर्बाधं, प्ररूद्वैः-उत्पन्नैः, यैः, अङ्कुरैरिव कालकूटो विराजतिविभाति ॥ अस्य प्रतिबिम्बविधयोपजीवनं यथा "जयन्ति नीलकण्ठस्य नीलाः कण्टे महादयः । गलद्गङ्गाम्बुसंसिक्तकालकूटाङ्कुरा इव ॥” [का० मी० अ० १२] अर्थः स्पष्ट एव, अत्र 'चन्द्रामृताम्बु' इति स्थाने 'गङ्गाम्बु' इति निक्षेपमात्रं नवीनम् । अत्र च पूर्वश्लोकस्य च्छाया स्पष्टमेव प्रतीयते, परन्तु वर्णनाक्रमोऽन्य इति न चारुत्वं जहाति । तदुक्तं ध्वन्यालोके "तत्त्वस्यान्यस्य सद्भावे, पूर्वस्थित्यनुयाय्यपि । वस्तु भातितरां तन्व्याः शशिच्छायमिवाननम् ॥" [ ४ उद्दयो०] प्रसिद्धवाच्यादिविलक्षणस्य तत्त्वस्य व्यङ्गयरसादिरूपस्य सत्त्वे पूर्वस्थितेःप्राचीनकविवर्णितपरम्परायाः, अनुयायि-तुल्यमपि वस्तु, तन्व्याः शशिच्छायमाननमिव विभातितराम् । यथा कामिन्याः शशिप्रभमाननं तुल्यच्छायत्वेऽपि लावण्यादिगुणयोगवशाद् भात्येव, न तु दुष्टं प्रतीयते, तथा काव्यान्तरसादृश्यमनुहरदपि काव्यं कस्यचिद् वैचित्र्यस्य सत्त्वे शोभनमेव प्रतीयत इति भावः ।। व्याख्यातं प्रतिबिम्बतयोपजीवनम् , अथालेख्यप्रख्यतयोच्यते । तल्लक्षणम् - "कियताऽपि यत्र संस्कारकर्मणा वस्तु भिन्नवद् भाति । तत् कथितमर्थचतुरैरालेख्यप्रख्यमिति काव्यम् ॥" [का० मी० अ० १२] “यन्त्र कियता अपि संस्कारकर्मणा, वस्तु भिन्नवद् भाति, अर्थचतुरैः तत् आलेख्यप्रख्यमिति काव्यं कथितम्" इत्यन्वयः। यत् पूर्वकविवर्णितमपि वस्तु कियताऽपि-अल्पेन बहना वा, संस्कारकर्मणा भिन्नवदू भाति-तत्सादृश्यं नावगाहते, अर्थविचारचतुरैस्तदालेख्यप्रख्यमिति काव्यं कथितम् , यथा तत्रैवार्थे "जयन्ति धवलव्यालाः शम्भोजूंटावलम्बिनः । गलद्गङ्गाम्बुसंसिक्तचन्द्रकन्दाकुरा इव ॥" [का० मी० अ० १२] चन्द्रकन्दः-शिरःस्थितचन्द्रात्मकः कन्दः, शेषं सुगमम् ॥ अत्र पूर्व 'जयन्ति का० ५ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy