SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४ सालङ्कारचूडामणौ काव्यानुशासने पद-पादादीनां च काव्यान्तराद् यथोचित्यमुपजीवनम् । पुनरादिपदात् समस्यापूरणाद्याः शिक्षाः। लक्षणोदाहरणान्यनुपदमेव विवेचयिष्यन्ते । सूत्रे छायादीत्यादिपदमुपातं, तेन कस्य संग्रह इत्याकाङ्क्षायामाह-आदिशब्दात् पद-पादादीनां च काव्यान्तरादिति-काव्यान्तरात्-पूर्वतरमहाकविप्रणीतसत्काव्यात् , यथोचित्यम् औचित्यमनतिक्रम्य, यावदर्थ-पद-पादादिहरणमौचितीं न लङ्घयेत् तावदाहरमिति भावः । उपजीवनपदसम्बद्धनादिपदेन किं संग्राह्यमित्याह-पुनरादिपदात् समस्यापूरणाद्याश्च शिक्षा इति समस्यापूरणं-कस्याऽपि पादस्य पादांशस्य पदस्य वाऽर्थमुपजीव्य शेषांशपूरणम् , अत्रत्याद्यपदेन च बन्धविशेषबिन्दुच्युतक-मात्राच्युतकादिपरिग्रहः, सर्वेषां काव्यकरण-तज्ज्ञानोपयुक्तानामर्थानामिति यावत् । तदेतत् सदनिबन्धना-ऽसन्निबन्धनाऽतिप्रसक्तजात्यादिनियमन च्छायोपजीवन-समस्यापूरणादीनि समुदितानि व्यस्तानि वा, यथादेश-कालपात्र-परिस्थिति शिक्षापदार्थो बोध्यः । तत्र क्रमश उदाहरणीयेषु सदनिबन्धाऽसन्निबन्ध-नियमानां बहुतरभेदात् सूचीकटाहन्यायेन च्छायोपजीवनमेव पूर्वमुदाहृतं विवेके। तत्र प्रतिबिम्बकल्पोपजीवनस्य लक्षणमुक्तं काव्यमीमांसायाम् "अर्थः स एव सर्वो वाक्यान्तरविरचना परं यत्र । तदपरमार्थविभेदं काव्यं प्रतिबिम्बकल्पं स्यात् ॥"[का० मी० भ० १२] 'यत्र स एव सर्वः, अर्थः [यस्माच्छायोपजीव्यते,] परं वाक्यान्तरविरचना, अपरमार्थविभेदं तत् काव्यं प्रतिबिम्बकल्पं स्यात्' इत्यन्वयः । तथा चोपजीव्यार्थसमानार्थकवाक्यान्तररचना प्रतिबिम्बकल्पभेद इत्यायाति, तथाहिबिम्बभूतं काव्यम् "ते पान्तु वः पशुपतेरलिनीलभासः, कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः । चन्द्रामृताम्बुकणसेकसुखप्ररूडै येरकुरैरिव विराजति कालकूटः ॥" [का० मी० म० १२] 'ते अलिनीलभासः पशुपतेः कण्ठप्रदेशघटिताः स्फुरन्तः फणिनः वः पान्तु, चन्द्रामृताम्बुकणसेकसुखप्ररूडैः यैः अङ्कुरैरिव कालकूटः विभाति' इत्यन्वयः । ते-प्रसिद्धाः, अलिवत् नीला भाः-कान्तिर्येषां ते, पशुपतेः-शिवस्य, कण्ठप्रदेशे For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy