SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १ सू० १० । ६३ धारणम् । छायायाः प्रतिविम्वकल्पनया, आलेख्यप्रख्यतया, तुल्यदेहितुल्यतया, परपुरप्रवेशप्रतिमतया चोपजीवनम् | आदिशब्दात् अनुगतमपि निबन् कविर्निन्द्यतां नोपयातीत्यर्थः । एष च प्रथमः पक्षः, यश्व कवित्वसम्पादकतयोपादीयते ॥ अपरश्च महाकवीनां मार्गः, स चायम् - "अन्यदृष्टचरे ह्यर्थे महाकवयो जात्यन्धाः" इत्यपारे शब्दार्थसमुद्रे नवमेव वस्तूपाददीतेति, न च तथा वस्तु दारिद्र्यं स्यादिति शङ्कनीयम्, यतश्चोक्तमभिनवगुप्ताचार्येण - www “प्रतायन्तां वाचो निमितविविधार्थामृतरसाः, न वादः कर्तव्यः कविभिरनवद्ये स्वविषये । परस्वादानेच्छाविरतमनसो वस्तु सुकवेः, सरस्वत्येवैषा घटयति यथेष्टं भगवती ॥ " [ ध्वन्या० उ० ४ ] wwww कविभिः, निमितः - नितरां प्रकटितः परिच्छिन्नो वा, विविधानामर्थानाममृतमिव समास्वाद्यो रसो यासां तादृश्यो वाचः प्रतायन्ताम् ; अत एव तैः, अनवद्ये निर्दूषणे स्वविषये, वादः - सन्देहो न कार्यः, यतः परस्वादानेच्छा विरतमनसः-अन्यकविधनरूपतदीयोक्तिग्रहणनिवृत्तचेतसः, सुकवेरेषा भगवती सरस्वत्येव वस्तु घटयति । ये पुनर्मनस्विनो जन्मान्तरीय सुचरितसम्भाराविर्भूतविलक्षणप्रतिभाः कवयितारः परच्छायामप्यजिघृक्षवः, तेषां काव्यार्थयोजनासम्पत्तिर्वाग्देवताप्रसादादेवानिर्वचनीया सम्पद्यत इति तत्रैव यतनीयमिति " तात्पर्यम् ॥ तत्रोभयस्य पक्षस्य स्वस्वविषयतया समीचीनत्वमेवेति वस्तुस्थितौ सत्या मपीह कवित्वसम्पादनस्यैव प्रकृततया परच्छायाहरणादीनामप्युपदेशः कर्तव्य एवेत्येतदभिप्रेत्याह "छायाद्युपजीवनादयश्च" इति सूत्रे, तदेव व्याख्याति छायायाः प्रतिबिम्वकल्पनयेति - अत्र प्रतिबिम्बकल्पतयेत्येव पाठो युज्यतेऽग्रिमेण पाठेन सहैकरूप्यात्, छाया हि पूर्वेषां कवीनामर्थस्य संवादः, तस्या उपजीवनम् - अवलम्बनम्, तदाश्रयणे न वाक्प्रबन्धनम्, तच्चोपजीवनं चतुर्धा - प्रतिबिम्बतया आलेख्यप्रख्यतया तुल्यदेहितुल्यतया परपुरप्रवेशतया चेति, सर्वेषां चैषां For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy