________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
सालङ्कारचूडामणौ काव्यानुशासने नवीनैरपि कविभिनवीना अनुदावितपूर्वा अर्था उद्भावयितुं शक्यन्ते, इति मतम् । एतदेव च अभिनवगुप्ताचार्येणापि स्वीये ध्वन्यालोके उक्तम् , तथाहि
"वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः।
निबद्धाऽपि क्षयं नैति प्रकृतिर्जगतामिव" [कारिका० ११४ ] यथा हि जगत्प्रकृतिः-अतीतकल्पपरम्पराऽऽविर्भूतवस्तुप्रपञ्चा सती पुनरिदानी परिक्षीणपदार्थनिर्माणशक्तिरिति न शक्यतेऽभिधातुम् , तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्ताऽपि नेदानी परिहीयते, प्रत्युत नवनवाभिर्युत्पत्तिभिः परिवर्धते ।" इत्थं स्थितेऽपि “संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम् ।” स्थितं ह्येतत्-संवादिन्यो मेधावतां बुद्धयः । किन्तु "नैकरूपतया सर्वे ते मन्तव्या विपश्चिता।" [चतुर्थोड्योते] इति, तदुक्तम् [का. मी.] “तत्प्रतिभासाय परप्रबन्धेष्ववदधीत, तदवगाहने हि तदेकयोनयोऽर्थाः पृथक् पृथक् प्रथन्ते" इति, "महात्मनां हि संवादिन्यो बुद्धय इत्येकमेवार्थमुपस्थापयन्ति, तत्परित्यागाय तानाद्रियेत" इति च, किन्तु निरुक्तमतद्वयमपि राजशेखरो न मन्यते, न इति यायावरीय इति, तन्न कारणमाह-“सारस्वतं चक्षुरवामानसगोचरेण" इत्यादिना, तस्यायं निष्कर्षः-महाकवीनां हि सारस्वतं चक्षुर्भवति, तेन चक्षुषा ते यावत् पश्यन्ति तावत् न ब्यक्षो न वा सहस्राक्षो न वा योगिनो द्रष्टुं शक्नुवन्तीति, कोऽर्थोऽन्यदृष्टः कोऽर्थोऽन्यादृष्ट इति ते स्वयमेव जानन्ति, न तदर्थ परकीयकाव्यानुसंधानाद्यावश्यकम् , किन्तु पूर्वैः काव्यानुशासनादिविधायकाचार्यैरर्थस्य योन्यन्ययोनितया विभक्तत्वेनान्ययोन्यर्थानुशीलनाय तस्य स्वकाव्ये समुपयोगाय च च्छाययाऽवलम्बनमावश्यकम् , तदयमन्तनिष्कर्षः-पुराणकविप्रतिपादितानामेवार्थानां संस्कारेण व्यङ्गयादिसंनिवेशपुरस्सरं निबन्धनमपि न दोषाधायकम् , तथाहि
“यदपि तदपि रम्यं यत्र लोकस्य किञ्चित् , स्फुरितमिदमितीयं बुद्धिरभ्युजिहीते । अनुगतमपि पूर्वच्छायया वस्तु ताइक्,
सुकविरुपनिबन्नन् निन्द्यतां नोपयाति ॥” [ध्वन्या० ४] यस्मिन् काव्यवस्तुनि सहृदयसमुदयस्य 'नवीनार्थविजृम्भणमिदम्' इति बुद्धिः-चमत्कृतिसंवित् , उत्पद्यते, तादृक् तदपि वा किञ्चिद्वस्तु पूर्वच्छायया
For Private And Personal Use Only