________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू०१०। मर्थमध्यगीष्महि, यदुत-अन्ययोनिर्नि[तयोनिरयोनिश्च" [१२-अध्याये] इति, तथा चान्यस्य काव्यस्यार्थोऽपि कथंचिदुपजीव्यते कविभिरिति तदुपजीवनं छाययोपजीवनं कथ्यते, तदुक्तं राजशेखरेण-"पुराणकविक्षुण्णे वर्त्मनि दुरापमस्पृष्टं वस्तु, ततश्च तदेव संस्कर्तुं प्रयतेत" इत्याचार्याः, 'न' इति वाक्पतिराजः, तथाहि
"आसंसारमुदारः कविभिः प्रतिदिनगृहीतसारोऽपि । अद्याप्यभिन्नमुद्रो विभाति वाचां परिस्पन्दः ॥"
[प्राकृतच्छाया, गउडवहे ९७] "तत्प्रतिभासाय च परप्रबन्धेष्ववदधीत, तदवगाहने हि तदेकयोनयोऽर्थाः पृथक् पृथक् प्रथन्ते" इत्येके, “तत्रत्यानामर्थानां छायया परिवृत्तिः फलम्" इत्यपरे, "महात्मनां हि संवादिन्यो बुद्धय एकमेवार्थमुपस्थापयन्ति, तत्परित्यागाय तानाद्रियेत" इति च केचित् , 'न' इति यायावरीयः, सारस्वतं चक्षुरवाङ्मनसगोचरेण प्रणिधानेन दृष्टमदृष्टं चार्थजातं स्वयं विभजति, तदाहुः
"सुप्तस्यापि महाकवेः शब्दार्थों सरस्वती दर्शयति, तदितरस्य तत्र जाग्रतोऽप्यन्ध चक्षुः, अन्यदृष्टचरे ह्यर्थे महाकवयो जात्यन्धाः, तद्विपरीते तु दिव्यदृशः, न तत् त्र्यक्षः सहस्राक्षो वा यधर्मचक्षुषोऽपि कवयः पश्यन्ति, मतिदर्पणे कवीनां विश्वं प्रतिफलति, 'कथं तु वयं दृश्यामहे' इति महात्मनामहंपूर्विकयैव शब्दार्थाः पुरो धावन्ति, यत् सिद्धप्रणिधाना योगिनः पश्यन्ति तन्त्र वाचा विचारयन्ति कवयः” इत्यनल्पा महाकविषु सूक्तय इति ।
अयमाशयः—यत् पूर्वमुक्तम् 'काव्येष्वपि निपुणताऽऽसादनीया' इति, तस्य फलद्वयम्-महाकवीनां वर्णनक्रमस्यानुशीलनात् तदानुगुण्येन कवनम् , अथ च तेन तेन कविनोक्तानामर्थानामेव नवीनया सरण्या संग्रथनं संस्कारो वेति, यतश्च पुराणकविभिराचरिते पथि किमपि तादृशं वस्तु दुरापम् ? यत् तैरस्पृष्टं भवेत् , ततश्च तदवलोक्य कवयन् कश्चित् तादृशकवित्वदर्शनाचौरोऽयमिति वा न मन्येत, इत्याचार्यमतम् , वाक्पतिराजस्य तु-पुराणकविभिरासंसृतेरद्यावधि वाण्याः स्रोतसः सारो गृहीतोऽपि स परिस्यन्दोऽद्याप्यभिन्नमुद्र एव, यया मुद्रया-ययाऽवस्थया प्राक् परिस्यन्दन्नासीत् तादृश एव, न ततो न्यूनः, अतश्च
For Private And Personal Use Only