SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने सतोऽपि जाति-द्रव्य-गुण-क्रियादेरनिबन्धनम् । असतोऽपि जात्यादेरेव निबन्धनम् । नियमोऽतिप्रसक्तस्य जात्यादेरेवैकत्राव व्यवहार इति कविसमयान्तर्गतत्वाल्लोक-शास्त्रसिद्धत्वानुमानमपि तत्र कर्तुं शक्यमेव, सम्प्रति वस्तुस्थितेर्जातेऽपि विपर्यये तदुक्तीरनुसृत्य तथा वर्णनमेवोचितं, न तु तद्विपरीतम् । तदुक्तम्-"पूर्वे हि विद्वांसः सहस्रशाख साङ्गं च वेदमवगाह्य शास्त्राणि चावबुध्य देशान्तराणि द्वीपान्तराणि च परिभ्रम्य यानानुपलभ्य प्रणीतवन्तस्तेषां देश-कालान्तरवशेनान्यथात्वेऽपि तथात्वेनोपनिबन्धो यः स कविसमयः।" [का० मी० अध्या० १४] इति । कविसमय इति च योगरूढं नाम, स चाय कविसमयस्त्रिधा-स्वग्र्यो भौमः पातालीयश्चेति, तथा चायं महाविषयः, स चापि प्रत्येकं चतुर्धा-जाति-द्रव्य-गुणक्रियारूपार्थकत्वात् , तत्रापि प्रत्येकं निधा-सतोऽप्यनिबन्धात् असतोऽपि निबन्धात् नियमाञ्चेति, तदेव व्याख्याति-सतोऽपि जाति-द्रव्य-गुण-क्रियादेरनिबन्धनमिति-अर्थस्य चतूरूपत्वेन कविसमयविषयस्य चतुर्धात्वमुक्तं प्रागेव, तेषामेव चतुर्णा मध्ये कस्यचित् सतोऽपि लौकिकसत्तया युक्तस्यापि, अनिबन्धनम् अनुपन्यसनं वर्णनाभाव इति यावत् । असतः लौकिकरीत्याऽप्रतीतसद्भावस्यापि, निबन्धनम् उपन्यसनम् , जात्यादेरेवेत्येवशब्देन तदतिरिक्तस्यार्थस्याभाव इति सूच्यते । सूत्रस्थं नियमपदं व्याख्यातिनियमोऽतिप्रसक्तस्येत्यादि-अतिप्रसक्तस्य-अन्यत्र वृत्तितया प्रमितस्य, यत्रोपनिबध्यते तत्र तद्भिन्ने चाश्रये वर्तमानस्यापि जात्यादेरेकत्रैव तन्मात्रवृत्तित्वेन अवधारण-स्थिरीकरणं नियमपदेनोच्यत इति भावः । तदेवं व्याख्यातं कविसमयवैविध्यं राजशेखरेणापि काव्यमीमांसायां विस्तरेण [ १४ अध्याये] । ___ अथ वामनादिभिर्वर्णनीयार्थस्य सामान्यतो द्वैविध्यमुक्तम् “अयोनिरन्यच्छायायोनिश्च" [अलंकारसूत्रवृत्ति ३-२-७] इति, अयोनिः-अकारणः, कविकृताववधानमात्रकारण इत्यर्थः, अन्यस्य-काव्यस्य च्छाया अन्यच्छाया, सा योनियस्य तथाभूतश्चेति, तत्रायोनिरित्यस्याकारण इत्येतावन्मानार्थकरणे कारणमात्राभावे कार्यस्योत्पादाभावाद् व्याघातः स्यादिति शङ्कया कवित्वबीजभूतप्रतिभोन्मेषप्रयोजनमवधानमेवात्र कारणमिति कथितम् , अयमेवान्यच्छायायोनिरूपोऽर्थो राजशेखरेण "अन्ययोनिनिहुँतयोनिश्च" इति विभक्तः, तथा चोक्तं तेन-"त्रिपथ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy