________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९
vvvvx
प्रकाशाभिधविवृतौ अध्या० १, सू० १० । शिक्षयेत्युक्तमिति शिक्षा लक्षयति
सतोऽप्यनिबन्धोऽसतोऽपि निवन्धो नियमच्छायाधुपजीवनादयश्च शिक्षाः ॥१०॥
निम्नतां न आदधाति, अत्राऽपिशब्दस्तस्य निम्नताऽऽधानहेतुत्वं ख्यापयति, अतो विनाऽभ्यासं कर्मसु कौशलं नोत्पद्यत इति ॥ ९ ॥
अग्रिमसूत्रस्थावतरणिकामाह-शिक्षयेत्युक्तमिति शिक्षा लक्षयतीतिपूर्वसूत्रे काव्यविदा शिक्षया पुनः पुनः प्रवृत्तिरित्यभ्यासलक्षणत्वेन प्रतिपादितमतः शिक्षानिरूपणं प्राप्तावसरमिति तां लक्षणेन प्रतिपादयतीत्यर्थः ।
इतरच्यावृत्ततया बोधनं लक्षधात्वर्थः, लक्षणं हि स्वरूपज्ञापनाय विधीयते, तञ्च द्विविधं-स्वरूपलक्षणं तटस्थलक्षणं च, तत्र पृथिव्या गन्धवत्त्वं प्रथमम् , ब्रह्मणो जगत्कर्तृत्वादि द्वितीयम् , लक्ष्येऽविद्यमानं सद् यद् व्यावर्तयति तत् तटस्थलक्षणम् , अत्र हि ब्रह्मणो निर्धर्मत्वान्न तत्र जगत्कर्तृत्वादि विद्यमानमथापि व्यावर्तयति तत् । तत्र शिक्षायाः स्वरूपलक्षणमुच्यते-सतोऽप्यनिबन्ध इत्या. दिना, स्वरूपलक्षणमित्यस्य स्वं-लिलक्षयिषितं वस्तु, रूप्यते-परिचयगोचरतामानीयते-इतरव्यावृत्तत्वप्रकारकज्ञानविषयीक्रियतेऽनेनेति स्वरूपम् , तच्च लक्षणमित्यर्थः।
काव्यकरण-तद्विवेकज्ञो हि सिद्धकविः सहृदयश्चाचार्यः स्वविनेयस्य प्रतिभासम्पन्नस्य समधिगतपद-वाक्य-प्रमाण-च्छन्दः-शास्त्रस्यापि कविसमयानभिज्ञत्वे काव्यकरणे सारल्यं तदनुशीलने चामन्दानन्दानुभवो न स्यादिति कविसमयज्ञानाय तत्स्वरूपं शिक्षयितुं शिक्षास्वरूपान्तर्भावमाह तस्य-सतोऽप्यनिबन्ध इत्यादिना ।
काव्यानुशासने वाग्भटेनापि “तत्र कविसमये सतामपि भावानां केषाञ्चिदनिबन्धः" [१ अध्याये] इत्यादिना एतत्सूत्रप्रतिपाद्यस्य विषयस्य कविसमयत्वमुक्तम् । अलौकिकमशास्त्रीयमपि यत् किमपि वस्तु कवय आदरादुपनिबभन्ति स कविसमय इत्युच्यते, एतच्च लोकशास्त्रविरोधेऽपि कविसम्प्रदायसिद्धत्वान्न दोषायापि तु गुणायैव । किञ्च कवीनां करबदरवदखिलं विश्वं विलोकयतां क्वचित् समये देशे वा तादृशाचारस्यैव लोक-शास्त्रानुमोदितत्वमवलोक्यैव तथा
For Private And Personal Use Only