SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १० । अथ पूर्वकविपद्यस्थपादोपजीवनमुदाह्रियते "गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा, द्वित्राण्येव पदानि तिष्ठतु भवान् पश्यामि यावन्मुखम् ॥ संसारे घटिकाप्रवाहविगलद्धारासमे जीविते, को जानाति पुनस्त्वया सह मम स्याद्वा न वा सङ्गमः ॥" [अ० श० १८३ ] wwwwwww कञ्चित् प्रवासाय प्रतिष्ठमानं नायकं काचिन्नायिकाऽऽह - "अहो यदि नाम गन्तव्यं निश्चितं [ तर्हि ] गन्तासि, इयं त्वरा का, भवान् द्वित्राण्येव पदानि तिष्ठतु, यावत् मुखं पश्यामि, संसारे घटिकाप्रवाहविगलद्धारासमे जीविते त्वया सह मम पुनः संगमः स्याद्वा न वा स्यादिति को जानाति" इत्यन्वयः । प्रथमं त्वया गन्तव्यमेव नहीत्येव युक्तम्, तथापि यदि गन्तव्यमित्येव निश्चितं व्वया तर्हि गन्तासि - अद्यैव ते गमनं भावि नाहं रुन्धे, किन्तु इयं त्वरा का ? यत् त्वं सपदि प्रस्थित एव, भवान् द्वित्राण्येव पदानि द्वित्रिपद निक्षेपोपयुज्यमानसमयं यावत् तिष्ठतु, अत्र त्वमित्यनुक्त्वा भवानिति कथनं निस्नेहतां व्यनक्ति, किमर्थमहं तिष्ठेयमिति चेदाह - यावन्मुखं पश्यामि - यावता कालेन ते मुखं साधुतया पश्येयं, यथा स्मृतिर्जन्मान्तरे दृढा स्यादिति, कुत इयमुत्सुकतेति चेत् ? अत्राह संसारे, घटिकाप्रवाहेण - कूपाज्जलोदरणार्थं निर्मितघटीयत्रवेगेन, विगलन्ती - वेगेन गच्छन्ती या धारा तया समे-तुल्ये, जीविते - जीवनसमये मम पुनस्त्वया सह सङ्गमः - सम्मेलनं स्याद्वा न वा स्यादिति को जानाति ?, यावत् श्वमा गमिष्यसि तावदहं जीविष्याम्येवेति न निश्चितमिति सम्यसुखावलोकनाय क्षणं स्थेयमिति वाच्योऽर्थः तव गमने मम जीवनमनिश्चितमिति ज्ञात्वा यथोचितमाचरेति व्यङ्ग्यम् । एतत्पद्यस्थितचतुर्थचरणोपजीवनं यथा " “हो स्निग्धसखे ! विवेक ! बहुभिः प्राप्तोऽसि पुण्यैर्मया, गन्तव्यं कतिचिद्दिनानि भवता नास्मत्सकाशात् क्वचित् । ७१ ] त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः, को जानाति पुनस्त्वया सह मम स्याद्वा न वा सङ्गमः ॥" [ “हो स्निग्धसखे ! विवेक ! बहुभिः पुण्यैः मया प्राप्तोऽसि [ अतः ] भवता, अस्मत्सकाशात् कतिचिद्दिनानि न गन्तव्यम्, [ किमर्थमिति चेत् ? ] गृहीत्तत्वरः, For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy