SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७२ सालङ्कारचूडामणी काव्यानुशासने त्वत्सङ्गेन जन्म-मरणोच्छेदं करोमि, [ ननु साम्प्रतमनुजानीहि ] गमनाय पुनः कदाचिदामिष्यामीति कथयसि चेत् ? ] पुनस्त्वया सह मम सङ्गमः स्याद्वा न वेति को जानाति" इत्यन्वयः । कश्चित् कथञ्चिद् महता श्रमेण विवेकं सत्त्व-पुरुषान्यताख्यातिं सद्सन्निर्णयं वा, समुपलभ्य कथयति - यथा त्वं बहुभिः पुण्यैर्लब्धोऽसि, किञ्चित् कालं यावन्मया त्वरितेन जन्ममरणोच्छेदः क्रियते, [ विवेकस्थिरीभावेन हि तदुच्छेदः प्रसिद्धः ] तावत् त्वयाऽत्र स्थातव्यम् त्वयि गते सति पुनस्त्वदागनम निश्चितमिति भावः । एकदा विवेकोत्पत्तौ हि तत् स्थिरीभावाभावे पुनस्तदुपलब्धिः कठिनेति प्रतीयते । अत्रान्तिमचरणोपजीवनं स्पष्टम् । पादयोपजीवनं यथा Acharya Shri Kailassagarsuri Gyanmandir " तत् तावदेव शशिनः स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदेति । अभ्युते तुहिनधामनिधौ तु तस्मिन् इन्दोः सिताश्रशकलस्य च को विशेषः ? ॥” 2 " तत् तावदेव शशिनः स्फुरितं महीयो यान्न किञ्चिदपि गौरतरा हसन्ति । "शशिनः तत् स्फुरितं तावदेव महीयः, यावत् तिग्मरुचिमण्डलं न अभ्युदेति, तस्मिन् अतुहिनधामनिधौ अभ्युद्गते सति इन्दोः सिताभ्रशकलस्य व को विशेषः ?" इत्यन्वयः । चन्द्रमसः [ रात्रौ ] प्रसिद्धं जगदाह्लादकं स्फुरितंप्रकाशः, तावत्कालपर्यन्तमेव, महीयः - प्रशस्यतरं चमत्कारकारि वा, यावत् सूर्यस्य मण्डलं न अभ्युदेति, उष्णतेजसि सूर्ये समुदिते तु, इन्दोः श्वेतजलधरखण्डस्य च न किमपि वैशिष्ट्यम्, दिवा चन्द्रोऽपि श्वेतवारिदखण्डमिव गगने निस्तेजः प्रतीयत इति भावः ॥ एतत्पयस्थितपादद्वयोपजीवनं यथा [ का० मी० अ० ११ ] www ताभिः पुनर्विहसिताननपङ्कजाभि wwwwwwwww रिन्दोः सिताभ्रशकलस्य च को विशेषः ? ॥" [ का० मी० अ० ११] यावद् गौरतरा नार्यो न हसन्ति, तावदेव शशिनः प्रकाशश्चेतश्च मत्करोति, हसितमुखकमलाभिस्ताभिर्हेतुतामुपगताभिः, इन्दोः श्वेतवारिदखण्डस्य च विशेषाभावः, तथाभूते समये चन्द्रमसोऽपि सौन्दर्यं न चेतश्च मत्करोतीति भावः । अत्र पूर्वोक्तपद्यस्थितप्रथम - चतुर्थपादयोरुपजीवनं स्पष्टम् ॥ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy