________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १० ।
पादत्रयस्योपजीवनं यथा
"अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे। न्यासापह्नवने चैव दिव्या सम्भवति क्रिया ।"
[का० मी० अ० ११] अयं धर्मशास्त्रीयो विवादविषयनिर्णायकः श्लोकः । “निर्जने अरण्ये, रात्रौ, अन्तर्वेश्मनि, साहसे, न्यासापह्नवने च, दिव्या क्रिया सम्भवति" इत्यन्वयः । जनरहिते वने, सुप्तसर्वलोकायां रात्रौ, सर्वस्य दृष्टिविषयबहिर्भूते गृहमध्ये च, कृते साहसे-साहसाचरणरूपेऽपराधे, न्यासस्य-न्यासरूपेण स्थापितधनस्य अपह्नवने-छलने च, कस्यापि साक्षिणो दुर्लभतया कथं निर्णय इति सन्देहे दिव्या क्रिया-घोरशपथरूपा तप्तलोहशलाकादिना दाहादाहादिरूपा च क्रिया सम्भवति, तयैव निर्णयः कार्य इति भावः ॥ अन्नत्यपादत्रयोपजीवनं यथा
"अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । तन्वङ्गी यदि लभ्येत दिव्या संभवति क्रिया ॥"
[का० मी० अ० ११] पूर्वपद्ये तृतीयचरणमात्रमिह परिवर्तितम् । निर्जनेऽरण्ये, रात्रौ, गृहमध्ये साहसे-सहसा प्रवर्त्तने कर्मणि यदि तन्वङ्गी लभ्येत, तदा दिव्या-अतिशयाह्लादिका, क्रिया-रत्यादिरूपा, संभवतीति भावः ।
इत्थं क्रमशः पादत्रयोपजीवनपर्यन्तमुदाहृतम् , पादचतुष्टयोपजीवनं च चौर्यतयोक्तमेव, तथा च तस्य क्वचिद् दृष्टत्वेऽपि नोदाहार्यम् । 'आदिशब्दात पद-पादादीनां च' इति वृत्तिग्रन्थे आदिग्रहणात् पदैकदेशस्योक्तेश्वोपजीवनं ग्राह्यम् । तत्र पदैकदेशोपजीवनं यथा
"नाश्चर्यं यदनार्याप्तावस्तप्रीतिरयं मयि । मांसोपयोगं कुर्वीत, कथं क्षुद्रहितो जनः ॥"
[का० मी० अ० ११] "अयं अनार्याप्तौ मयि अस्तप्रीतिः [इति न आश्चर्यम् , क्षुद्रहितो जनो मांसोपयोग कथं कुर्वीत" इत्यन्वयः । कश्चित् सजनः कथञ्चन दुर्जनेन सह जातप्रीतिः पश्चाद् दुर्जनान्तरसमागमेन तस्य प्रीतिहानिं दृष्ट्वा कञ्चित् प्रति
For Private And Personal Use Only