________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
सालङ्कारचूडामणौ काव्यानुशासने कथयति, अयं-प्रकृतचर्चाविषयीभूतो जनः, अनार्यस्य-दुष्टस्य, आप्तौ-समागमे सति, मयि अस्तप्रीतिः-विगलितस्नेहो जात इति नाश्चर्य-नात्र किमपि चित्रम्, यतः क्षुद्रहितः क्षुद्राः-लघीयांसो जनाः, हिताः-हितोपदेशका यस्य सः, क्षुद्रंनिन्दनीयं वा कर्मादि हितं यस्यासौ वा, माम्-अक्षुद्रं, कथं सोपयोग-उपयोगेन कार्ययोजनेन सहितं कृतकृत्यं कुर्वीत, यस्य हि क्षुद्रं कार्य तस्य क्षुद्रा एव सहाया भविष्यन्तीति तेषामेवोपयोगस्तेन कार्यः, न मादृशेन तस्य किमपि कार्यम् , प्रयोजनाभावेऽभीष्टेऽपि वस्तुनि प्रवृत्त्यभाव इति श्लेषमूलकदृष्टान्तेनाह-क्षुद्रहितो जन:-बुभुक्षाहीनो मनुष्यः, मांसोपयोगं-मांसस्य भोजनादि कथं कुर्वीतेति । यथा पूर्वमभीष्टमपि मांसं केनापि कारणेन बुभुक्षाऽभावे न भुज्यते तथाऽयमपि मयि न प्रीतिमावहतीति ॥ एतत्पद्यस्थं 'मांसोपयोगम्' इति पदं परिकल्प्य तदंशस्योपजीवनं यथा--- "कोपान्मानिनि ! किं स्फुरत्यतितरां शोभाधरस्तेऽधरः, किं वा चुम्बनकारणाद् दयित ! नो वायोर्विकारादयम् । तत् त्वं सुभ्र ! सुगन्धिमाहितरसं स्निग्धं भजस्वादरात् , मुग्धे! मांसरतं ब्रुवन्निति तया गाढं समालिङ्गितः ॥"
[का० मी० अ०११] "मानिनि ! शोभाधरः ते अधरः किं कोपात् अतितरां स्फुरति ?, किं वा चुम्बनकारकारणात् [अतितरां स्फुरति] ?, दयित! नो, अयं वायोः विकारात् [ अतितरां स्फुरति ], सुभ्र! मुग्धे ! तत् त्वं सुगन्धिं आहितरसं स्निग्धं मांसरसं आदरात भजस्व इति ब्रुवन् , तया गाढं समालिङ्गितः” इत्यन्वयः । कश्चित् कुपितां कामिनी प्रसादयन् पृच्छति-मानिनि ! शोभायुक्तस्ते रदच्छदोऽतितरां यत् स्फुरति, तत् किं कोपात्, अथवा मां चुम्बितुमभिलाषयेति कथय । साऽऽह-दयित! त्वदुक्तावुभावपि हेतू न स्तः, किन्तु वायोर्विकार एवास्य स्फुरणे हेतुः, एतेन च तया स्वकोपो गृहितः । नायकश्च चतुरतया वायुविकारौषधिमाह श्लेषण-मुग्धे:अस्य विकारस्याल्पायासेनापनेतुं साध्यतया तमप्यजानती त्वं सत्यं मुग्धाऽसीति द्योतयति । सुगन्धि-शोभनो गन्धो यस्य तं सुरा , आहितः-आ-समन्तात् , हितकरः, रसः-स्वादः सारो वा यस्य तम् , स्निग्धं-स्नेहेन घृतादिना युक्तं, मांसरसंमांसस्य-आमिषस्य रसं-तरलसारम् , आदरात्-श्रद्धया, भजस्व-उपयोजय, इति ब्रुवन् तया गाढं समालिङ्गितः-कोपस्यापगमात् तच्चातुर्येणातितरां प्रसत्तेर्वा स्वयं नायिकया स सामलिङ्गितः । “इति ब्रुवन् [एव] तया गाढं समालिङ्गितः"
W
For Private And Personal Use Only