________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10.
AAWww
प्रकाशाभिधविवृतौ अध्या० १, सू०१० । इति कथनेन तदुक्त्या कस्यापि तादृशस्यार्थस्य सूचनं येन रसोद्रेकात् कोपापनयो जात इति प्रतीयते, स चायमर्थ:-अस्याधरस्फुरणरूपस्य व्याधेरपनयनाय सुगन्धि पौरुषातिरेकजन्यशोभनगन्धयुक्तम् , आहितरसम्-आहितः-पूर्व त्वयैव वर्धितो, रसो-रतिस्थायिभावकः शृङ्गारो यस्मिंस्तम् , स्निग्धं-स्नेहयुक्तम् , सरसं समुत्कण्ठितं, मां आदरात्-श्रद्धया, [ स्वेच्छयैव ] भजस्वेति । यद्यपि अत्रार्थे माहितरसं सरसमिति पदयोरुक्तार्थत्वं प्रतीयते तथापि उक्तरीत्या व्याख्यानान्न दोष इति । अत्र पूर्वपद्यस्थ 'मांसोपयोगम्' इति पदस्थो 'मांसं' इत्यंशो गृहीतः ॥ उक्तरुपजीवनं यथा
"उरुद्वन्द्व सरसकदलीकाण्डसब्रह्मचारि"[का० मी० अ० ११] इत्यस्या उपजीवनम्
"ऊरुद्वयं कदलकन्दलयोः सर्वशं, श्रोणिः शिलाफलकसोदरसन्निवेशा । वक्षः स्तनद्वितयताडितकुम्भशोभं, सब्रह्मचारि शशिनश्च मुखं मृगाक्ष्याः ॥"
[का० मी० अ० ११] "मृगाक्ष्याः ऊरुद्वयं कदलकन्दलयोः सवंशम् , श्रोणिः शिलाफलकसोदरसनिवेशा, वक्षः स्तनद्वितयताडितकुम्भशोभम् , मुखं च शशिनः सब्रह्मचारि" इत्यन्वयः । मृगाक्ष्याः-मृगस्य अक्षिणी इव अक्षिणी यस्यास्तस्याः, ऊरुद्वयंजानूपरिभागयुग्मम् , कदलस्य-कदलीवृक्षस्य, कन्दलयो:-अङ्कुरयोः, नवीनकदलीवृक्षयोरिति यावत् , एतेन तयोः कोमलत्वं व्यज्यते, सर्वशं-सदृशम् ; श्रोणि:कटिः, शिलाफलकेन सोदरः-समानः, सन्निवेश:-स्थितिर्यस्यास्तादृशी, वक्षःउरः, स्तनद्वितयेन-कुचयुग्मेन, ताडिता-आहता, कुम्भयोः-घटयोः, शोभा येन तादृशम् ; मुखं च शशिनः-चन्द्रस्य, सब्रह्मचारि-सहाध्यायि, समानगुणतया सदृशमिति भावः । अत्रोपरितनाया उक्तरुपजीवनं प्रतीयत एवं ॥
इत्थं व्याख्यातान्युपजीवनानि, एतेषां शिक्षयाऽपि कवित्वशक्तिरुन्मिषिता भवति, आस्वादविशेषश्च कश्चिदनुभूयते । तदुक्कं राजशेखरेण"उक्तयो झर्थान्तरसंक्रान्ता न प्रत्यभिज्ञायन्ते स्वदन्ते च” इति ।
[का० मी० अ० ११]
For Private And Personal Use Only