________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ९ ।
अभ्यासं व्याचष्टेकाव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः ॥९॥ काव्यं कर्तुं जानन्ति विचारयन्ति वा ये ते काव्यविदः कवि
एवमेव राजशेखरेणापि काव्यमीमांसायामुक्तम्"बहुज्ञता व्युत्पत्तिः” इत्याचार्याः, सर्वतोदिक्का हि कविवाचः, तदुक्तम्"प्रसरति किमपि कथञ्चन, नाभ्यस्ते गोचरे वचः कस्य ।
इदमेव तत् कवित्वं यद् वाचः सर्वतोदिक्काः” ॥ [ ] 'उचितानुचितविवेको व्युत्पत्तिः' इति यायावरीयः । इति [का० मी० अ०५] अभ्यस्ते गोचरे कस्य किमपि वचः कथञ्चन न प्रसरति । तत् कवित्वम् , इदमेव, यत् सर्वतोदिक्का वाचः, बहुशः परिशीलिते ह्यर्थे सर्वस्यापि वचः कथञ्चन प्रवर्तत एव, सर्वदिक्षु-सर्वस्मिन् विषये, प्रसरणशालि वाग्मित्वमेव हि कवित्वमित्यर्थः ।
काव्यालंकारसूत्रवृत्तौ वामनेनापि “लोको विद्या प्रकीर्णं च काव्याङ्गानि" [अधि १, अ. ३, सू-१] इति सूत्रेण संक्षिप्य लोकवृत्तस्य विद्यानां तदन्येषां च प्रकीर्णकशब्दवाच्यानां सर्वेषामर्थानां काव्याङ्गत्वमभिधाय परैरूनविंशत्या सूत्रैर्व्याख्यातम् । अभिनवगुप्ताचार्येण च [ लोचने पृ० १३८ नि० सा० मुद्रिते]
"समस्तवस्तुपौर्वापर्यपरामर्शकौशलं व्युत्पत्तिः" इत्युक्तम् । सर्वथा हि व्युत्पत्युत्पत्तये यथासम्भवमशेषविषज्ञानमपेक्षितमिति समुदितार्थः, तत्सुष्टुक्तम्-न स शब्द इत्यादिना ॥ ८॥
प्रतिभासंस्कारककारणद्वयमध्ये प्रथमा व्युत्पत्तिनिरूपिता, अथ क्रमप्राप्तं द्वितीयं कारणम्-अभ्यासं व्याचष्टे-विविच्य कथयति । सूत्रस्थं काव्यविच्छिक्षयेति पदं द्विधा व्याख्याति विदेरावृत्त्याऽर्थद्वयस्येष्टत्वात्-काव्यं कर्तुं जानन्ति विचारयन्ति वेत्यादि । कर्तुं जानन्तीत्यस्य विचारयन्तीत्यस्य च निकृष्टमर्थं सहैवाह-कवि-सहृदयाः इति-कवयः कर्तुं जानन्ति, सहृदयाश्च विचारयन्तीति ।
For Private And Personal Use Only