________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५६
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणी काव्यानुशासने
काव्येषु महाकविप्रणीतेषु निपुणत्वं तत्त्ववेदित्वं व्युत्पत्तिः । लोकादिनिपुणता संस्कृतप्रतिभो हि तदनतिक्रमेण काव्यमुपनिबध्नाति ॥ ८ ॥
काव्येष्विति श्रव्यदृश्यभेदभिन्नेषु नानाभाषानिबद्धेषु येषु केषुचिदात्म-परनिर्मितेषु काव्यपदवाच्येषु गद्येषु पद्यचयेषु वा निपुणतामात्रेण न कृतार्थतेति द्योतयितुमाह- महाकविप्रणीतेष्विति तथा च तत्तन्महाकविव्यवहारदर्शनसमुत्थिता प्रौढिरप्यनायासमासादनीयेत्यपरमनुकूलमित्यावेदितं भवति, तथा च पूर्वोक्तमन्थेषु शास्त्रेषु काव्येषु च निपुणता व्युत्पत्तिरित्यन्वयः । उक्तलोकादिनैपुण्यस्य कारणविधयोपयोगो नेष्टोऽपि तु संस्कारकतयेति द्योतयितुमाह-लोकादिनिपुणतासंस्कृतप्रतिभो हीत्यादिना, लोकादिनिपुणतया संस्कृता - भूषिता प्रतिभा यस्य सः, यतस्तेषां लोकादीनामनतिक्रमेण तत्तन्मर्यादामनुल्लङ्घयन् काव्यमुपनिबध्नाति - निर्माति, अतस्तेषु निपुणताऽऽवश्यकीति समुदितार्थः ॥
इत्थमात्ममते व्युत्पत्तिकारणस्वरूपव्याख्यानं व्याख्याय परैरुक्तानपि व्युत्पच्यादिहेतून संगृह्णन्नाह विवेके
"न स शब्दो न तद्वाच्यं, न स न्यायो न सा कला ।
जायते यन्न काव्याङ्गमहो भारो गुरुः कवेः ॥" [ भामहालं० ५, ४]
www
यत् काव्याङ्गं न जायते स शब्दो न, तद् वाच्यं न, स न्यायो न सा कला न । निगमयति- अहो कवेर्गुरुर्भारः, यतो हि तेन काव्यं साङ्गं कर्तुमीहता समस्त एव वाङ्मयः परिशीलनीय इति महान् भारः । उक्तं हि रुद्रटेनापि काव्यालंकारे
wwww
www.www
" विस्तरतस्तु किमन्यत् तत इह वाच्यं न वाचकं लोके । न भवति यत् काव्याङ्गं सर्वज्ञत्वं ततोऽन्यैषा ॥” [ १–१९ ]
>
विस्तरत:- व्युत्पत्तिसम्बन्धिनो विस्तरात् किम् - किमपि न साध्यम्, ततोऽन्यद् वाच्यं वाचकं वा लोके न यत् काव्याङ्गं न भवति । ततो हेतोः, एषाव्युत्पत्तिः, अन्या - द्वितीया, सर्वज्ञत्वं नाम - - “उद्देश्य - प्रतिनिर्देश्ययोरैक्यमापादयत् सर्वनाम क्रमेण तत्तल्लिङ्गभाग भवति" इति न्यायाद् अन्यैषेति स्त्रीलिङ्गमपि सर्वज्ञत्वमित्यनेनान्वेति ।
For Private And Personal Use Only