SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० ८। रजनिकरकलाशेखरः शङ्करः, असौ सधनुरसिगदाचक्रचिह्नश्चतुर्भिदौर्भिरुपलक्षितो दैत्यान्तकः-विष्णुः, एष ऐरावणस्थस्त्रिदशपतिरपि, तथा अन्ये देवा अपि दृश्यन्ते, एताश्च चलचरणरणन्नूपुरा दिव्यनार्यो नृत्यन्ति, एतत् सर्वं पश्येति भावः॥ चित्रे-चित्रणकर्मणि नैपुण्यं यथा "अतथ्यान्यपि तथ्यानि, दर्शयन्ति विचक्षणाः। सम-निम्नोन्नतानीव, चित्रकर्मविदो जनाः ॥" [व्यासस्य ] विचक्षणाः-वाग्योगपटवः, अतथ्यान्यपि तथ्यानि दर्शयन्ति, तत्र दृष्टान्तमाहचित्रकर्मविदः--आलेख्यकार्यकुशलाः, जनाः सम-निनोन्नतानीव, अयं भावः-यथा चित्रकर्तरि एकस्मिन्नेव फलके तूलिकाचेष्टयैव समतल-जलशयादिनिम्नतल-भूधराधुन्नतस्थलादि दर्शयन्ति तथैव विचक्षणा अतथ्यान्यपि तथ्यानीव दर्शयन्तीति । अत्र ‘समे निम्नोन्नतानि' इत्यपि पाठः, तत्र समे-समतलरूपे चित्रफलके निम्नोन्नतानीवेत्येवं व्याख्येयम् ॥ धनुर्वेदनैपुण्यमिदम्--- "आर्यस्यास्त्रघनौघलाघववती सन्धानसम्बन्धिनी, स्थाणुस्थानकसौष्ठवप्रणयिनी चित्रक्रियालङ्कतिः । निःस्पन्देन मयाऽतिविस्मयक्ती सत्यं स्थितप्रत्यया, संहारे खर-दूषण-त्रिशिरसामेषैव दृष्टा स्थितिः ॥" [ कनकजानकी ] आर्यस्य-ज्येष्ठस्य दाशरथेः, खरश्च दूषणश्च त्रिशिराश्चैतेषां संहारे-नाशने, अस्त्राणां धनो-निविडो य ओघः-प्रवाहः प्रक्षेपणपरम्परा, तत्र यल्लाघवं-क्षिप्रकारित्वं तद्वती-तेन युक्ता, सन्धानं-बाणाद्यस्त्राणां लक्ष्याभिमुखीकरणं, तत्सम्बधिनी-तद्विषया, स्थाणुवत्-अचलवत् , यत् स्थानकं-स्थितिविशेषः, तत्सौष्टवस्य प्रणयिनी-परिचिता, चित्रा-अद्भुता या क्रिया-प्रहारव्यापारः, सा अलङ्कतिःशोभाधायिका यस्याः सा, अतिविस्मयमयी-अत्याश्चर्यबहुला, स्थितः-दृढः, प्रत्ययो-विश्वासः शत्रुविजयविषयको यस्यां सा, एषैव-पूर्ववर्णितानतिरिक्ता स्थितिः, मया-लक्ष्मणेन, सत्यं दृष्टा-अवलोकिता । अत्र अस्वलाघवं सन्धान स्थाणुवत् स्थानक-निश्चलत्वं स्थितप्रत्ययत्वम्-आत्मनि विश्वस्तत्वमेते पदार्था धनुर्वेदप्रसिद्धाः ॥ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy