SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने द्यूते निपुणतेयम् "यत्रानेके वचिदपि गृहे तत्र तिष्ठत्यथैको, यत्राऽप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते । इत्थं नेयौ रजनि-दिवसौ तोलयन् द्वाविवाक्षौ, कालः काल्या सह बहुकला क्रीडति प्राणिशारैः ॥" चन्द्रकस्य] 'यत्र क्वचिदपि गृहे अनेके [प्राणिनः, शारा वा सन्ति ] अथ तत्रैकः, तिष्ठति, यत्रापि [गृहे पूर्वम् ] एकः, तदनु बहवः, तन्न अन्ते एकोऽपि न, इत्थं द्वौ अक्षौ इव नेयौ रजनि-दिवसौ तोलयन् बहुकलः कालः काल्या सह क्रीडति' इत्यन्वयः । यथा-अक्षक्रीडायां कौचिद् द्वाभ्यामक्षाभ्यां क्रीडन्तौ तत्रत्यान् शारान् अक्षपातानुसारिसंख्यया गृहाद् गृहान्तरं-कोष्ठात् कोष्ठान्तरं चालयतः, तत्र यथासंभवं यत्र गृहेऽनेके शाराः प्रसङ्गादागताः, तत्रैकस्तिष्ठति, कदाचिद् पत्र गृहे एक एव शारः पूर्वमासीत् क्रमेणान्येऽपि समायातास्तत्राऽपि कदाचित् शून्यमेव गृहं तिष्ठति; तथा सृष्टि-स्थिति-संहाररूपां क्रीडामाचरन् काल्या सहितः काल:-रुद्ररूपः, अक्षस्थानीयौ रजनी-दिवसौ तोलयन् हस्तेन परिवर्तयन्निव, प्राणिरूपैः शारैः पूर्वोक्तदिशा क्रीडति, यथा यत्र वचन गृहे बहवः प्राणिनः पूर्वमासन् , तत्र कालवशादेक एव तिष्ठति, यत्र गृहे पूर्वमेक एवाऽऽसीत् तदनु तत्सन्ततिवृद्ध्या बहवो जातास्तत्र कदाचिदन्ते एकोऽपि न भवति, इति अत्र सृष्टि-स्थिति-संहारादिक्रियायामक्षक्रीडासाम्यं साधूपनिबद्धमिति तज्ज्ञानसाध्यमेव ॥ इन्द्रजालनैपुण्यं यथा "एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शङ्करोऽयं, दोभिदैत्यान्तकोऽसौ सधनुरसिंगदाचक्रचिलैश्चतुर्भिः । एषोऽप्यैरावणस्थस्त्रिदशपतिरपि देवि! देवास्तथान्ये, नृत्यन्ति व्योनि चैताश्चलचरणरणन्नूपुरा दिव्यनार्यः ॥ [२० अं० ४ श्लो० ११]" कथंचिद् रत्नावलीसम्प्रयोग साधयितुकामो नायकोऽन्तःपुरे पट्टराश्यामोहनायैन्द्रजालिकमाहृतवान् , स प्रारम्भे स्वीयं नैपुण्यं दर्शयितुं सर्वान् देवान् नानास्थानस्थितानपि प्रत्यक्षतया दर्शयन्नाह हे देवि ! सरोजे एष ब्रह्मा, अयं For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy