SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० ८ । रत्नपरीक्षानैपुण्यं यथा"द्वौ वज्रवर्णी जगतीपतीनां, सद्भिः प्रदिष्टौ न तु सार्वजन्यौ। यः स्थाजपा--विद्रुमभङ्गशोणो यो वा हरिद्वारससन्निकाशः ॥"[ ] 'सन्दिः द्वौ वज्रवर्णों जगतीपतीनां प्रदिष्टौ न तु सार्वजन्यौ प्रदिष्टौ, [को तावित्यत्राह-] यः जपा विद्रुमभङ्गशोणः स्यात्, वा यः हरिद्रारससन्निकाशः स्यात्' इत्यन्वयः । सद्भिः-रत्नपरीक्षानिपुणैः, द्वौ वज्रवर्गौ-वज्रस्य-हीरकादेवौँरूपे, जगतीपतीनां-राज्ञां कृते, प्रदिष्टौ-शुभप्रदतया धार्यत्वेन व्यवस्थापितो, किन्तु तौ सार्वजन्यौ-सर्वजनीनौ सर्वसाधारणमनुष्यहितो, अथवा सर्वसाधारणप्राप्यो, न प्रदिष्टौ, तो चेमौ-यो जपाभङ्गशोणो विद्रुमभङ्गशोणश्च स्यात्-जपापुष्पखण्डवद् रक्तवर्णों वा, विद्रुमखण्डवद् रक्तवर्णो वा, अथ च हरिद्राया रसेन समानवर्णः । अत्र रत्नविशेषज्ञ एव तेषां तारतम्यं फलं च जानीयादिति तन्नैपुण्यमत्रापेक्षितमेव ॥ धातूनां हिरण्यादिपदार्थानां परिचयादौ नैपुण्यं यथा "नखदलितहरिद्राग्रन्थिगौरे शरीरे, स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः । बलवति सति यस्मिन् सार्धमावर्त्य हेना, रजतमिव मृगाक्ष्याः कल्पितान्यङ्गकानि ॥" [विद्धशालभञ्जिका भ. ३ श्लो. १८] नायक आह-मृगाक्ष्याः-मृगाङ्कावलीनाम्न्या नायिकायाः, नखदलितहरिद्राग्रन्थिगौरे शरीरे, अयं विरहजन्मा-अभिलाषविषयप्रियतमसंगमाभावसंभूतः, कोऽपि पाण्डुभावः, स्फुरति-चन्द्रिकायामपि चकास्ति, यस्मिन् बलवति सति, हेम्ना साध रजतम् , आवर्त्य कल्पितानीव अङ्गानि प्रतिभान्तीति शेषः । अत्र नखेन हरिद्राया दलने या स्वाभाविकी गौरतोदेति सा हेन्नो वर्णेन समा, विरहजन्मा धवलिमा च रजतेन, उभयोश्चैकत्र विरहिवनिताङ्गे संमेलनाद् धातुद्वयमिश्रणेनेवाङ्गकल्पनेति प्रतीतिरिति वर्णयितुराशयः । स च धातुप्रकृतिविकृति-तन्मेलनादिविशेषज्ञानं विना वर्णयितुमशक्यः, अत्र दरदलितेत्यपि पाठो दृश्यते॥ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy