________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५२
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणी काव्यानुशासने
9
2
वृथापरीवाद - तज्जन्यतयागोभयकृते परितप्यमानस्य वर्णनमिदम्, राघवः कुञ्जर इव, एकाकिनी - निःसहायाम्, प्रियतमाम् - अतिशय प्रेमास्पदभूतां सीताम्, अथ च करिणों, कानने संत्यक्तां वनं प्रेषिताम् अथ च वने यूथ भ्रष्टाम्, स्मृत्वा चिराय मुक्तो भोगः - राज्यविभवास्वाद एव कवलो यस्मिन् तद् यथा स्यात् तथा, क्लेश एवं ऊष्मा तेन शुध्यति -अन्तर्दह्यते । कथंभूतो राघवकुञ्जरः ? कर्णयोरभ्यर्णे - समीपे, विकीर्णः, चामरयोर्यो मरुत् वायुः, तेन विस्तीर्णो निःश्वासो यस्य सः, रामस्य राज्ञः कर्णयोः पार्श्वे चामरवीजनेन जायमानेन मरुता तस्य सीतावियोगजन्यो निःश्वासो विस्तीर्यतेः शङ्खच्छत्राभ्यां विराजमानो यो राज्यविभवस्तं द्वेष्टीति तथा, दुःखितया स राज्यविभवमपि नाद्रियते; निलीनेनिमीलिते ईक्षणे यस्य सः, दुःखात् कमपि न पश्यति नेत्रे निमील्य तिष्ठति; गजेऽपि पूर्वोक्तं विशेषणत्रयं तेनैव रूपेण घटते, तस्यापि कर्णयोः समीपे भ्रमरादिबाधावारणाय चामरादिवीजने प्रसरता मरुता निःश्वासवायुर्वर्धत एव, करिणी वियोगदुःखादसौ येन राज्यविभवेन पूर्वमानन्दित आसीत् तमेव द्वेष्टि, नेत्रे निमील्य स्थानं च तस्यापि स्वाभाविकमेव, विशेषतो मरणावस्थायाम्, दुःखेन च गजो भोजनादिकं त्यजति, इति यद् गजशास्त्रेण विज्ञातं तदेव रूपकेण राघवे समुपनिबद्धमिति ॥
तुरंगशास्त्र नैपुण्यं यथा—
"आवर्त्तशोभः पृथुसत्त्वराशिः फेनावदातः पवनोरुवेगः । गम्भीरघोषोऽद्विविमर्दखेदादश्वाकृतिं कर्तुमिवोद्यतोऽब्धिः ॥ "
www.wm
[ अमृततरङ्गकाव्ये ] आवर्त्तेन- पानीयभ्रमेण शोभते, अश्वपक्षे आवर्तेन शिरः प्रदेशस्थितेन रोमावर्तेन शोभत इति । पृथूनां महतां सत्त्वानां राशिः - समूहभूतः [ आधारभूतः, ] पृथो:- महतः सत्त्वस्य - बलस्य राशिरित्यश्वपक्षे, फेनेन जलोत्थितेन अवदातः - शुभ्रः, अथ च फेनवदवदातोऽश्वः; पवनेन वायुना [ कारणेन ] उरुः - महान् वेगो यस्य, अश्वे पवनवत् उरुवेंगो यस्य; गंभीरो घोषः - शब्दो यस्येत्युभयपक्षे, एवं भूतोऽब्धिः, अद्रिविमर्दखेदात्-पर्वतघातपरिश्रमात् अश्वाकृतिम् - अश्वानुकरणं कर्तुमुद्यत एवेति संक्षिप्तार्थः । अश्वस्यान्धेश्च सामान्येन विशेषणानि व्याख्यातान्येव, तथा चानुकरणमब्धेः प्रतीयते ॥
,
For Private And Personal Use Only